________________
सू० २।१२] मोक्षस्वरूपविचारः
३०७ स्पर्शनादिनेन्द्रियेण यद्यसावनुभवेत् ; तर्हि भगवतो मतिज्ञानानुषङ्गः। अथ केवलज्ञानेन; तंत्रापि सर्व भोजनादिकं परशरीरस्थमप्यस्यानुषज्यते । न चात्मशरीरस्थमेवास्य तन्नान्यदित्यभिधा. तव्यम् ; भगवतो वीतमोहस्य स्वपरशरीरमतिविभागाभावात् । __ यच्चोपचारतोप्यस्यैकादश परीषहा न सम्भाव्यन्ते तत्र तन्नि-५ षेधपरत्वात् सूत्रस्य, 'एकेनाधिका न दश परीषहा जिने एकादश जिने' इति व्युत्पत्तेः। प्रयोगः-भगवान् क्षुदादिपरीषहरहितोऽनन्तसुखत्वात्सिद्धवत् ।
किञ्च, भोजनं कुर्वाणो भगवान् किल लोकैर्नावलोक्यते चक्षु. षेत्यभिधीयते भवता । तत्रादर्शनेऽयुक्तसेवित्वादेकान्तमाश्रित्य १० भुत इति कारणम् , बहलान्धकारस्थितभोजनं वा, विद्याविशेषण खस्य तिरोधानं वा ? तत्राद्यपक्षे पारदारिकवद्दीनवद्वा दोषसम्भावनाप्रसङ्गः । अन्धकारस्तु न सम्भाव्यते, तद्देहदीया तस्य निहतत्वात् । विद्याविशेषोपयोगे चास्य निर्ग्रन्थत्वाभावः। कथं चादृश्याय तस्मै दानं दातृभिर्दीयते ? अथातिशयविशेषः कश्चि-१५ त्तस्य, येन भुञ्जानो नावलोक्यते; तर्हि भोजनामावलक्षण एवास्यातिशयोस्तु किं मिथ्याभिनिवेशेन ? ततो जीवन्मुक्तस्यात्मनोऽनन्तचतुष्टयखभावत्वमिच्छता कवलाहाररहितत्वमेवैष्टव्य. मित्यलमतिप्रसङ्गेन।
ननु च 'अनन्तचतुष्टयस्वरूपलाभो मोक्षः' इत्ययुक्तम् ; बुद्ध्या-२० दिविशेषगुणोच्छेदरूपत्वात्तस्य । तदुच्छेदे च प्रमाणम्-नवानामात्मविशेषगुणानां संन्तानोऽत्यन्तसुच्छिद्यते सन्तानत्वात् प्रदीपसन्तानवत् । न चायमसिद्धो हेतुः; पक्षे प्रवर्त्तमानत्वात्। नापि विरुद्धः; सपक्षे प्रदीपादौ सत्त्वात् । नाप्यनैकान्तिकः; पक्षसपक्षवद्विपक्षे परमाण्वादावप्रवृत्तेः। नापि कालात्ययापदिष्टः:२५ विपरीतार्थोपस्थापकयोःप्रत्यक्षागमयोरसम्भवात् । नापि सत्प्रतिपक्षः प्रतिपक्षसाधनाभावात् ।
१ तहिं । २ केवलज्ञानेन तत्राप्यनुभवोस्तीति भावः। ३ ( एकादश जिने इति सूत्रस्य जिननिष्ठैकादशपरीषहाणां निषेधपरत्वात् )। ४ ग्रन्थे। ५ मां दृष्ट्वा कश्चिद्भोजनं याचिष्यत इति दीनचित्तत्वं दोषो दीनचित्तस्य । ६ व्यापारे । ७ प्रपञ्चन । ८ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारलक्षणानाम् । ९ धर्माधर्माभ्यां बुद्धिरुत्पद्यते बुद्धेः संस्कारः संस्कारादिच्छाद्वेषौ इच्छाद्वेषाभ्यां प्रयत्नस्तस्मात्सुखदुःखे भवत इति नवानां गुणानां सन्तानः। १० सर्वथा। ११ निये । १२ प्रतिपक्षसाधको हेतुः सत्प्रतिपक्षः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org