________________
३०८
प्रमेयकमलमार्त्तण्डे
[ २. प्रत्यक्षपरि०
मनु सन्तानोच्छेदरूपेपि मोक्षे हेतुर्वाच्यो निर्हेतुकविनाशानभ्युपगमात्; इत्यप्यचोद्यम्: तत्वज्ञानस्य विपर्ययज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वोपपत्तेः । दृष्टुं च सम्यग्ज्ञानस्य मिथ्याज्ञानोच्छेदे शुक्तिकादौ सामर्थ्यम् । ननु चातत्त्वज्ञानस्यापि ५ तत्वज्ञानोच्छेदे सामर्थ्य दृश्यते, ज्ञानस्य ज्ञानान्तरविरोधित्वेन मिथ्याज्ञानोत्पत्तौ सम्यग्ज्ञानोच्छेदप्रतीतेः इत्यप्ययुक्तम् यतो नानयोरुच्छेदमात्रमभिप्रेतम् । किं तर्हि ? संतानोच्छेदः । यथा च सम्यग्ज्ञानीन्मिथ्याज्ञानसन्तानोच्छेदो नैवं मिथ्याज्ञानात्सम्यज्ञानसन्तानस्य, अस्य सत्यार्थत्वेन बलीयस्त्वात् । निवृत्ते च १० मिथ्याज्ञाने तन्मूला रागादयो न सम्भवन्ति कारणाभावे कार्यानुत्पादात् । रागाद्यभावे तत्कार्या मनोवाक्कायप्रवृत्तिर्व्यावर्त्तते । तदभावे च धर्माधर्मयोरनुत्पत्तिः । आरब्धशरीरेन्द्रियविषयकार्ययोस्तु सुखदुःखफलोपभोगात्प्रक्षयः । अनारब्धतत्कार्ययोरtयवस्थितयोस्तत्फलोपभोगादेव प्रक्षयः । तथा चागमः१५ "माभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि" [
] इति ।
अनुमानं च, पूर्व कर्माण्युपभोगादेव क्षीयन्ते कर्मत्वात् प्रारब्धशरीरकर्मवत् । न चोपभोगात्प्रक्षये कर्मान्तरस्यावश्यं भावासंसारानुच्छेदः समधिबलादुत्पन्नतत्त्वज्ञानस्यावगत कर्मसामयत्पादितयुगपदशेषशरीरद्वारावाप्ताशेषभोगस्योपत्तिकर्मप्रक्ष२० यात्, भाविकर्मोत्पत्ति निमित्त मिथ्याज्ञानजनितानुसन्धान विकलत्वाच्च संसारोच्छेदोपपत्तेः । अनुसन्धानं हि रागद्वेषौ 'अनुसंधीयते गतं चित्तैमाभ्याम्' इति व्युत्पत्तेः । न च मिथ्याज्ञानाभावेऽभिलाषस्यैवासम्भवाद्भोगानुपपत्तिः, तेंदुपभोगं विना हि कर्मणां प्रक्षयानुपपत्तेः तत्त्वज्ञानिनोपि कर्मक्षयार्थितया प्रवृत्ते२५ वैद्योपदेशेनातुरवदौषधाचरणे । यथैव ह्यातुरस्यानभिलषितेप्यौपधाचरणे व्याधिप्रक्षयार्थ प्रवृत्तिः, तद्व्यतिरेकेण तत्प्रक्षयानुपपत्तेस्तथापि ।
१ मिथ्या । २ सम्यग्ज्ञानान्मिथ्याज्ञानाभावस्तदभावाद्रागाद्यभावस्तदभावाच्च मनोवाक्कायप्रवृत्तिरूपप्रयत्नाभावस्तदभावाद्धर्माधर्मयोरभाव इति । १३ द्विचन्द्रादिज्ञानस्य । ४ एकचन्द्रशानस्य । ५ आमूलतः सन्ततिच्छेदे एवाभिप्रायः । ६ सग्वनितादिकं सुखहेतुरिति अहिकण्टकादिकं दुःखहेतुरिति च सम्यग्ज्ञानात् । ७ स्रग्वनितादिकं दुःखहेतुरिति ज्ञानात् । ८ धर्माधर्मयो: । ( बस ) । ९ प्रारब्धं शरीरं येन तच्च तत्कर्म च । १० ध्यान । ११ नुः। १२ पूर्वोपात्त । १३ सम्बध्यते । १४ अनेन पूर्वं ममेदृग्विधं दुःखादिकं दत्तमिति । १५ बुद्धि: । १६ तत्वज्ञानिनः पुरुषस्य । १७ कर्मफलस्य । १८ कर्मफलोपभोगे । १९ उक्तमेव समर्थयति । २० कर्मफलोपभोगे तत्त्वज्ञानिनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org