________________
३०६
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
स्मरन्तो भोजनपरित्यागेऽसमर्थास्तद्भुञ्जते तदा तद्दोषविशुद्ध्यर्थ गुरुवचनादात्मानं निन्दन्तः प्रायश्चित्तं कुर्वन्ति । ये तु तत्यागे समर्थाः पिण्डविशुद्धावुद्यतमनसो निर्वेदस्य परां काष्ठामापन्ना स्त्यक्तशरीरापेक्षा जितजिव्हा अन्तरायविषये निपुणमतयस्ते ५ स्मरन्तोपि न भुञ्जते ।
किञ्च, असौ भोजनं कुर्वाणः किमेकाकी करोति, शिष्यैर्वा परिवृतः ? यदि एकाकी; पश्चाल्लुग्नान् शिष्यान्विनिवार्य श्रावकानां गत्वा भुङ्क्ते तर्हि दीनः स्यात् । अथ तैः परिवृतः; तर्हि सावद्य
प्रसङ्गः ।
१० किञ्च, असौ भुक्त्वा प्रतिक्रमणादिकं करोति वा न वा ? करोति चेत्; अवश्यं दोषवान् सम्भाव्यते, तत्करणान्यथानुपपत्तेः । न करोति चेत्; तर्हि भुजिक्रियातः समुत्पन्नं दोषं कथं निराकुर्यात् ? औहारकथामात्रेणापि ह्यप्रमत्तोपि सन् साधुः प्रमत्तो भवति, नार्हन्भुआनोपीति श्रद्धामात्रम् । प्रमत्तत्वे चास्य १५ श्रेणितः पतितत्वान्न केवलभाक्त्वम् ।
किमर्थं चासौ भु-शरीरोपचयार्थम्, ज्ञानध्यान संयमसंसि - अर्थ वा क्षुद्रेदनाप्रतीकारार्थं वा, प्राणत्राणार्थे वा ? न तावच्छरीरोपचयार्थम् ; लाभान्तरायप्रक्षयात्प्रतिसमयं विशिष्टपरमाणुलाभतस्तत्सिद्धेः । तदर्थं तङ्ग्रहणे चासौ कथं निर्ग्रन्थः स्यात् २० प्राकृतपुरुषवत् ? नापि ज्ञानादिसिद्ध्यर्थम् ; यतो ज्ञानं तस्याखिलार्थविषयमक्षयस्वरूपम्, संयमश्च यथाख्यातः सर्वदा विद्यते । ध्यानं तु परमार्थतो नास्ति निर्मनस्कत्वात्, योगनिरोधत्वेनोपचारतस्तत्रास्य सम्भवात् । नापि प्राणत्राणार्थम् ; अपमृत्युरहितत्वात् । नापि क्षुद्वेदनाप्रतीकारार्थम् ; अनन्तसुखवीर्ये भगव२५ त्यस्याः सम्भवाभावस्योक्तत्वात् ।
ननु भगवतो भोजनाभावे कथम् 'एकादश जिने परीषहाः ' इत्यागमविरोधो न स्यात् ? तदसत् तेषां तत्रोपचारेणैव प्रतिपादनात्, उपचारनिमित्तं च वेदनीयर्सद्भावमात्रम् । परमार्थतस्तु तत्र तेषां सद्भावे क्षुदादिपरीषहसद्भावादुभुक्षावद् रोगबध३० तृणस्पर्शपरीष हसद्भावान्महदुःखं स्यात्, तथा च दुःखितत्वानासौ जिनोऽस्मदादिवत् । तथा भोजनं रसनेन शीतादिकं च
१ यतयः । २ पृष्ठे । ३ भगवतो भुक्तिक्रियातो दोष एव न सम्पद्यते इत्युक्ते आह । ४ प्रमत्तो न भवतीति यावत् । ५ प्राकृतो नीचः । ६ आयुषोऽपवर्त रहितत्वात् । ७ जिने । ८ द्रव्यरूपेण । ९ भोजनं रसनेनानुभवेद्वा केवलज्ञानेन वेति विकल्प्य क्रमेण दूषयन्नाह ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org