________________
सू० २।१२] कवलाहारविचारः
अथाकाङ्क्षारूपा क्षुन्न भवति, तेन वीतमोहेप्यस्याः सम्भवः, तदप्ययुक्तम्; अनाकाङ्क्षारूपत्वेप्यस्या दुःखरूपतयाऽनन्तसुखे भगवत्यसम्भवात् । तथाहि यत्र यद्विरोधि बलवदस्ति न तत्राभ्युदितकारणमपि तद्भवति यथाऽत्युष्णप्रदेशे शीतम् , अस्ति च क्षुदुःखविरोधि बलवत् केवलिन्यनन्तसुखम् । तथा यत्कार्य-५ विरोध्यनिवर्त्य यत्रास्ति तंत्र तंदविक्रलमपि स्वकार्य न करोति यथा श्लेष्मादिविरुद्धानिवर्त्यपित्तविकाराक्रान्ते न दध्यादि श्लेष्मादि करोति, वेद्यफलविरुद्धाऽनिवर्त्यसुखं च भगवतीति ।
अस्तु वा वेद्यं तत्र बुभुक्षाफलप्रदायि, तथापि-बुभुक्षातः समवसरणस्थित एवासौ भुते, चर्यामार्गेण वा गत्वा? प्रथमपक्षे१० मार्गस्तेन नाशितः स्यात् । कथं च बुभुक्षोदयानन्तरमाहारासम्पत्तौ ग्लानस्य यथावद्बोधहीनस्य मार्गोपदेशो घटेत ? अथ तदु. दयानन्तरं देवास्तत्राहारं सम्पादयन्ति; न; अत्र प्रमाणाभावात् । 'आगमः' इति चेन्न; उभयप्रसिद्धस्यास्याप्यभावात् । खप्रसिद्धस्य भावेपि नातस्तत्सिद्धिः, 'भुत्युपसर्गाभावः' इत्यादेरपि प्रमाणभू-१५ तागमस्य भावात् । अथ चर्यामार्गेण गत्वासौ भुङ्क्ते तत्रापि किं गृहं गृहं गच्छति, एकस्मिन्नेव वा गृहे भिक्षालाभं ज्ञात्वा प्रवतते ? तत्राद्यपक्षे भिक्षार्थ गृहं गृहं पर्यटतो जिनस्याशानित्वप्रसङ्गः। द्वितीयपक्षे तु भिक्षाशुद्धिस्तस्य न स्यात् । कथं चासौ मत्स्यादीन् व्याधलुब्धकप्रभृतिभिः सर्वत्र सर्वदा व्याहन्यमाना-२० न्प्राणिनस्तेषां पिशितानि च तथाऽशुच्यादींश्वार्थान् साक्षात्कुर्वनाहारं गृह्णीयात् ? अन्यथा निष्करुणः स्यात् । जीवानां हि वधं विष्ठादिकं च साक्षात्कुर्वन्तो व्रतशीलविहीना अपि न भुञ्जते, भगवांस्तु व्रतादिसम्पन्नस्तत्साक्षात्कुर्वन् कथं भुञ्जीत ? अन्यथा तेभ्योप्यसौ हीनसत्त्वः स्यात् ।
यदप्युच्यते-यत्किञ्चिदृष्टं शुद्धमशुद्धं तत्स्मरन्तो यथारमदादयो भोजनं कुर्वन्ति तथा केवली साक्षात्कुर्वनिति; तदप्युक्तिमात्रम्; न ह्यस्मदादीनां परमचारित्रपदप्राप्तेनाशेषज्ञेन भगवता साम्यमस्ति। अस्मदायोपि हि यथा(यदा)कथञ्चित्किञ्चिदशुद्धं वस्तु दृष्टं
१ क्षुदादिदुःखं धर्मि । २ यस्य वेदनीयस्य । ३ कार्य क्षुत् । ४ अनन्तसुखम् । ५ न केनापि निराकर्तुं शक्यम् । ६ वेदनीयम् । ७ ( नरे)। ८ श्लेष्मादिलक्षणस्य कार्यस्य करणे अविकलमपि । ९ अनन्तसुखम् । १० वेदनीयम् । ११ श्वेतपटस्य । १२ भगवतः। १३ अर्थे । १४ श्वेतपटमते प्रसिद्धस्यागमस्य । १५ जैनागमस्य । १६ केनचित्प्रकारेण मार्गादिगमनलक्षणेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org