________________
सू० २।१२] कवलाहारविचारः
२९९ प्रसङ्ग इति ? अत्रोच्यते-तेषामुद्भूतवृत्तित्वं नित्यम् , अनित्यं वा ? न तावन्नित्यम् ; कादाचित्कत्वात् , स्थित्यादीनां योगपद्यप्रसङ्गाच्च । अथानित्यम्; कुतोऽस्य प्रादुर्भावः ? प्रकृतीश्वरादेव, अन्यतो वा हेतोः, स्वतन्त्रो वा? प्रथमपक्षे सदास्य सद्भावप्रसङ्गः, प्रकृतीश्वराख्यस्य हेतोर्नित्यरूपतया सदा सन्निहितत्वात् । न चान्यतस्त-५ प्रादुर्भावो युक्तः, प्रकृतीश्वरव्यतिरेकेणापरकारणस्यानभ्युपगमात् । तृतीयपक्षे तु कादाचित्कत्वविरोधोऽस्य स्वातन्येण भवतो देशकालनियमायोगात् । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्काः स्युः तद्भावाभावप्रतिबद्धत्वात्तत्सत्त्वासत्त्वयोः, नान्ये तेषामपेक्षणीयस्य कस्यचिद्भावात् ।
किञ्च, आत्मानं जनयति भावो निष्पन्नः, अनिष्पन्नो वा? न तावन्निष्पन्नः; तस्यामवस्थायामात्मनोपि निष्पन्नरूपाव्यतिरेकितया निष्पन्नत्वान्निष्पन्नखरूपवत् । नाप्यनिष्पन्नः, अनिष्पन्नखरूपत्वादेव गगनाम्भोजवत् । तस्मात्प्रकारान्तरेणाशेषज्ञत्वासिद्धे. रावरणापाये एवाशेषविषयं विज्ञानम् । तच्चात्मन एवेति परीक्षा-१५ दक्षैः प्रतिपत्तव्यम् । तच्च विज्ञानमनन्तदर्शनसुखवीर्याविनाभावित्वादनन्तचतुष्टयस्वभावत्वमात्मनः प्रसाधयतीति सिद्धो मोक्षो जीवस्यानन्तचतुष्टयस्वरूपलाभलक्षणः, तस्यापेतप्रतिबन्धकस्यात्मस्वरूपतया जीवन्मुक्तिवत्परममुक्तावप्यभावासिद्धेः॥ ।
ये त्वात्मनो जीवन्मुक्तो कवलाहारमिच्छन्ति तेषां तत्रास्यान-२० न्तचतुष्टयखभावाभावोऽनन्तसुखविरहात् । तद्विरहश्च बुभुक्षाप्रभवपीडाक्रान्तत्वात् । तत्पीडाप्रतीकारार्थो हि निखिलजनानां कवलाहारग्रहणप्रयासः प्रसिद्धः। ननु भोजनादेः सुखाद्यनुकूलत्वात्कथं भगवतोऽतोऽनन्तसुखाद्यभावः? दृश्यते ह्यस्मदादौ क्षुत्पीडिते निश्शक्तिके च भोजनसद्भावे सुखं वीर्य चोत्प-२५ द्यमानम् ; इत्यप्ययुक्तम् ; अस्मदादिसुखादे कादाचित्कतया विषयेभ्य एवोत्पत्तिसम्भवात् । भगवत्सुखादेश्च तत्सम्भवेऽनन्तता. व्याघातः। तथाहि-क्षुत्क्षामकुक्षिनिश्शक्तिकश्चासौ यदा कवला. हारग्रहणे प्रवृत्तस्तदैव तैदीयसुखवीर्ययोर्नष्टत्वात्कुतोऽनन्तता? वीतरागद्वेषत्वाच्चास्य तद्ब्रहणप्रयासायोगः । प्रयोगः-केवली न ३०
१ कारणस्य। २ जायमानस्य । ३ कार्यलक्षणाद्भावादपरः कारणलक्षणो भाव: स्वभावान्तरम् । ४ कारणाधीनवृत्तय इत्यर्थः। ५ तस्य कार्यस्य । ६ स्वरूपम् । ७ कार्यलक्षणः । ८ निष्पन्नायाम् । ९ जगत्कर्तृत्वादिलक्षणेन । १० जीवमयत्वेन । ११ श्वेतपटाः। १२ भगवदीय ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org