________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भुङ्क्ते रागद्वेषाभावानन्तवीर्यसद्भावान्यथानुपपत्तेः। ननु सममित्रशत्रूणां साधूनां भोजनादिकं कुर्वतामपि वीतरागद्वेषत्वसम्भवादनैकान्तिको हेतुः; इत्यप्यसाम्प्रतम् ; मोहनीयकर्मणः सद्भावे भोजनादिकं कुर्वतां प्रमत्तगुणस्थानप्रवृत्तीनां साधूनां परमार्थतो ५वीतरागत्वासम्भवात् । तन्नानैकान्तिकोयं हेतुः । नापि विरुद्धो विपक्षे वृत्तेरभावात्। ___कवलाहारित्वे चास्य सरागत्वप्रसङ्गः। प्रयोगः-यो यः कवलं भुङ्क्ते स स न वीतरागः यथा रथ्यापुरुषः, भुङ्क्ते च कवलं
भवन्मतः केवलीति । कवलाहारो हि स्मरणाभिलाषाभ्यां भुज्यते, १० भुक्तवता च कण्ठोष्ठप्रमाणतस्तृप्तेनाऽरुचितस्त्यज्यते । तथा
चाभिलाषाऽरुचिभ्यामाहारे प्रवृत्तिनिवृत्तिमत्त्वात्कथं वीतरागत्वम् ? तदभावान्नाप्तता । अथाभिलाषाद्यभावेप्याहारं गृह्णात्यसौ । तथाभूतातिशयत्वात्, ननु चाहाराभावलक्षणोंप्यतिशयोऽस्या
भ्युपगन्तव्योऽनन्तगुणत्वाद्गनगमनाद्यतिशयवत् । १५ अथाहाराभावे देहस्थितिरेवास्य न स्यात्; तथाहि-भगवतो
देहस्थितिः आहारपूर्विका देहस्थितित्वादस्मदादिदेहस्थितिवत् । नन्वनेनानुमानेनास्याहारमात्रम्, कवलाहारो वा साध्येत ? प्रथमपक्षे सिद्धसाध्यता, 'आसयोगकेवलिनो जीवा आहारिणः' ।
इत्यभ्युपगॅमात् , तत्र च कवलाहाराभावेप्यन्यस्य कर्मनोकर्मा२० दानलक्षणस्याविरोधात् । षट्विधो ह्याहारः
"णोकम्म कम्महारो कवलाहारो य लेप्पमाहारो। ओज मणो वि य कमसो आहारो छविहो यो॥"[ ] इत्यभिधानात् । न खलु कवलाहारेणैवाहारित्वं जीवानाम् ; एकेन्द्रियाण्डजत्रिदशानामभुआनतिर्यग्मनुष्याणां चानाहारित्व२५प्रसङ्गात् । न चैवम्
"विग्गहगइमावण्णा केवलिणो समुहदो अजोगी य। सिद्धा य अणाहारा सेसा आहारिणो जीवा ॥"
[जीवकाण्ड गा० ६६५, श्रावकप्रश० गा० ६८] १ कवलाहाराभावमन्तरेणानुपपत्तेस्तयोः । २ हेतोरेकांशं गृहीत्वा दूषयति । ३ कवलाहारिणि । ४ अभिलापाद्यभावेप्याहारग्रहणलक्षण। ५ जैनैः। ६ नोकर्म (१), कर्माहारः (२), कवलाहारः (३), लेप्यः आहारः (४) ओजः (५), मानसिकः (६) अपि च क्रमशः आहारः षडियो ज्ञेयः। ७ विग्रहगतिमापन्नाः केवलिनः समुद्घात ( दण्डकपाटेति समुद्घातद्वय ) गताः अयोगिनश्च । सिद्धाश्च अनाहाराः शेषा आहारिणो जीवाः । ८ दण्डकवाटावस्थायाम् । ९ अर्हदवस्थातः अन्ते सिद्धावस्थात आदौ या अवस्था सा अयोगावस्था ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org