________________
२९८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० ज्ञानोत्पत्तिसामर्थ्याभावे सहितानामप्यसौ युक्तः, तदप्युक्तिमात्रम् ; यतः साहित्यं नामानयोरन्योन्यं सहकारित्वम् । तच्चान्योन्यातिशयाधानाद्वा स्यात् , एकार्थकारित्वाद्वा? न तावदाद्यकल्पना युक्ता; नित्यत्वेनानयोर्विकाराभावात् । नापि द्वितीय५कल्पना युक्ता; कार्याणां योगपद्यप्रसङ्गात् । अप्रतिहतसामर्थ्यस्ये. श्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणत्वात्तेषाम् । तथाहि-यद्यदाऽविकलकारणं तत्तदा भवत्येव यथाऽन्त्यक्षणप्राप्तायाः सामग्रीतोऽङ्करः, अविकलकारणंचाशेष कार्यमिति।
ननु यद्यपि कारणद्वयमेतन्नित्यं सन्निहितं तथापि क्रमेणैवामी १० कार्यभेदाः प्रवर्तिष्यन्ते । महेश्वरस्य हि प्रधानगताः सत्त्वादय
स्त्रयो गुणाः सहकारिणः, तेषां च क्रमवृत्तित्वात्कार्याणामपि क्रमः। तथाहि-यदोद्भूतवृत्तिना रजसा युक्तो भवत्यसौ तदा सर्गहेतुः प्रजानां भवति प्रसवकार्यत्वाद्रजसः, यदा तु सत्त्वमुद्भूतवृत्ति संश्रयते तदा लोकानां स्थितिकारणं भवति सत्त्वस्य १५ स्थितिहेतुत्वात् , यदा तमसोद्भूतशक्तिना समायुक्तो भवति तदा प्रलयं सर्वजगतः करोति तमसः प्रलयहेतुत्वात् । तदुक्तम्
"रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशहेतवे यीमयाय त्रिगुणात्मने नमः ॥१॥" [ कादम्बरी पृ० १] २० इत्यप्यसाम्प्रतम्; यतः प्रकृतीश्वरयोः सर्गस्थितिप्रलयानां
मध्येऽन्यतमस्य क्रियाकाले तदपरकार्यद्वयोत्पादने सामर्थ्यमस्ति, न वा? यद्यस्ति; तर्हि सृष्टिकालेपि स्थितिप्रलयप्रसङ्गोऽविकलकारणत्वादुत्पादवत् । एवं स्थितिकालेप्युत्पादविनाशयोः, विनाश
काले च स्थित्युत्पादयोः प्रसङ्गः, न चैतद्युतम् । न खलु पर२५ स्परपरिहारेणावस्थितानामुत्पादादिधर्माणामेकत्र धर्मिण्येकदा
सद्भावो युक्तः । अथ नास्ति सामर्थ्यम् ; तदैकमेव स्थित्यादिनां मध्ये कार्य सदा स्यात् यदुत्पादने तयोः सामर्थ्यमस्ति, नापरं कदाचनापि तदुत्पादने तयोः सदा सामर्थ्याभावात् । अविकारि
णोश्च प्रकृतीश्वरयोः पुनः सामोत्पत्तिविरोधात्, अन्यथा ३० नित्यैकस्वभावताव्याघातः।
अथ तत्स्वभावेपि प्रधाने सत्त्वादीनां मध्ये यदेवोद्भुतवृत्ति तदेव कारणतां प्रतिपद्यते नान्यत्, तत्कथं स्थित्यादीनां योगपद्य
१ प्रसव उत्पत्तिः। २ ईश्वरः कर्ता । ३ न जायते इत्यजो रुद्रस्तस्मै। ४ यी वेदास्त्रयी। ५ सत्त्वरजस्तमोरूपाय । ६ स्थितिप्रलयो धर्मिणौ सृष्टिकाले भवतः तदा अविकलकारणत्वात् । ७ प्रजालक्षणे । ८ सामर्थ्यमुत्पद्यते चेत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org