________________
सू० २।१२] प्रकृतिकर्तृत्ववादः
२९७ विचित्रशक्तियुक्तमेकं नित्यं कारणम् । तदानकोन्तिकता हेतोः। तथाभूतेन क्वचिदन्वयासिद्धरसिद्धता च, न खलु व्यतिरिक्तशक्तिवशात् कस्यचित्कारणस्य क्वचित्कार्ये प्रवृत्तिः प्रसिद्धा, शक्तीनां खात्मभूतत्वात् ।
यच्चेदमुक्तम्-अविभागाद्वैश्वरूप्यस्य; तदप्यसाम्प्रतम् ; प्रल-५ यकालस्यैवाप्रसिद्धेः । सिद्धौ वा तदासौ महदादीनां लयो भवन् पूर्वस्वभावप्रच्युतौ भवेत् , अप्रच्युतौ वा? यदि प्रच्युतौ; तर्हि तेषां तदा विनाशसिद्धिः स्वभावप्रच्युतेर्विनाशरूपत्वात् । अथाप्रच्युतो; तर्हि लयानुपपत्तिः, नहि अविकलमात्मनस्तत्त्व. मनुभवतः कस्यचिल्लयो युक्तोऽतिप्रसङ्गात् । परस्परविरुद्धं १० चेर्दम् 'अविभागो वैश्वरूप्यम्' इति च । वैश्वरूप्यं च, प्रधानपूर्वत्वे नोपपद्यत एव, तन्मयत्वेन सर्वस्य जगतस्तत्स्वरूपवदेकत्वप्रसङ्गात्, इति कस्याऽविभागः स्यादिति ? तन्न प्रधानस्य सकलजगत्कर्तृत्वं सिद्धम् , यतस्तत्सिद्धौ प्रधानस्य सर्वज्ञता, कर्तृत्वस्य कारणशक्तिपरिज्ञानाविनाभावासिद्धरित्युक्तं प्रागीश्वर-१५ निराकरणे, तदलमतिप्रसङ्गेन । - एतेन सेश्वरसाङ्ख्यैर्यदुक्तम्-'न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण कार्यमारभमाणो दृष्टः। न चान्यात्माऽधिष्ठायको युक्तः, सृष्टिकाले तस्याज्ञत्वात् । तथा हि-बुद्ध्यध्यवसितमेवार्थ पुरुष-२० श्वेतयते । बुद्धिसंसर्गाञ्च पूर्वमसावन एव, न जातु कश्चिदर्थ विजानाति । न चाज्ञातमर्थ कश्चित्कर्तुं शक्तः । अतो नासौ कर्ता। तस्मादीश्वर एव प्रधानापेक्षः कार्यभेदानां कर्ता, न केवलः । न खलु देवदत्तादिः केवलः पुत्रम् , कुम्भकारो वा घटं जनयति' इति; तदपि प्रतिव्यूढम् ; प्रत्येकं तयोः कर्तृत्वस्यासम्भवे सहि-२५ तयोरप्यसम्भवात्, अन्यथा प्रत्येकपक्षनिक्षिप्तदोषानुषङ्गः। __ अथोच्यते-यदि नाम प्रत्येकं तयोः कर्तृत्वासम्भवस्तथापि सहितयोः कथं तदभावः ? न हि केवलानां चक्षुरीदीनां रूपादि
१ धर्मस्वभावे भेदः। २ साध्यते इति शेषः। ३ सन्दिग्धरूपा। ४ स्वस्य । ५ स्वरूपम् । ६ वस्तुनः। ७ प्रधानात्मनोरपि लयप्रसङ्गात्। ८ अविभागाद्वैश्वरूप्यमिति । ९ एकत्वम् । १० अनेकत्वम् । ११ लोके आदौ विभागोस्ति यदि तदा पश्चाद्विभागानामविभागः स्यात् । १२ कर्तृत्वं कारणशक्तिशानाबिनाभावि न भवतीति समर्थनेन । १३ प्रकृतीश्वरनिराकरणपरेण ग्रन्थेन। १४ महदादयः । १५ ईश्वरं प्रेरकम् । १६ संसार्यात्मा। १७ कार्यम् । १८ सहितयोस्तयोः कर्तृत्वसम्भव श्चेत् । १९ आलोकादीनां च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org