________________
२९२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० दिना विभक्तरूपेण मध्यावस्थावत्सन्ति, तर्हि तेषां किमुत्पाद्यमस्ति येन तानि कारणैः क्षीरादिभिर्जन्यानि स्युः? तथा च प्रयोगःयेत्सर्वाकारेण सत्तन्न केनचिजन्यम् यथा प्रधानमात्मा वा, सच्च सर्वात्मना परमते दंध्यादीति न महदादेः कार्यता । नापि प्रधानस्य ५ कारणता; अविद्यमानकार्यत्वात् । यदविद्यमानकार्य तन्न कारणम् यथात्मा, अविद्यमानकार्य च प्रधानमिति । क्षीराद्यवस्थायामपि दध्यादीनां पश्चादिवोपलम्भप्रसङ्गश्च । अथ कथञ्चिच्छक्तिरूपेण सत्कार्यम् । ननु शक्तिर्द्रव्यमेव, तद्रूपतया सतः पर्यायरूपतया चासतो घटादेरुत्पत्त्यभ्युपगमे जिनपतिमतानुसरणप्रसङ्गः। १० किञ्च, तच्छक्तिरूपं दध्यादेर्भिन्नम् , अभिन्नं वा? भिन्नं चेत्, कथं कारणे कार्यसद्भावसिद्धिः? कार्यव्यतिरिक्तस्य शक्त्याख्यपदार्थान्तरस्यैव सद्भावाम्युपगमात् । आविर्भूतविशिष्टरसादिगुणोपेतं हि वस्तु दध्यादि कार्यमुच्यते। तच्च क्षीराद्यवस्थायामुपलब्धिलक्ष.
णप्राप्तानुपलब्धेर्नास्ति । यच्चास्ति शक्तिरूपं तत्कार्यमेव न भवति । १५ न चान्यस्य भावेऽन्यदस्त्यतिप्रंसङ्गात् । अथाभिन्नम्। तर्हि दध्यादेर्नित्यत्वात्कारणव्यापारवैयर्थ्यम् ।
अभिव्यक्तौ कारणानां व्यापारान्न वैयर्थ्यम्; इत्यप्यसत्; यतोऽभिव्यक्तिः पूर्व सती, असती वा? सती चेत् कथं क्रियेत?
अन्यथा कारकव्यापारानुपरमः स्यात् । अथासती; तथाप्याकाश२० कुशेशयवत्कथं क्रियेत? असदकरणादित्यभ्युपंगेमाच ।
सर्वस्य सर्वथा सत्त्वेन च कार्यत्वासम्भवादुपादानपरिग्रहोपि · न प्राप्नोति । सर्वसम्भवाभावोपि प्रतिनियतादेव क्षीरादेर्दध्या.
दीनां जन्मोच्यते । तच्च सत्कार्यवादपक्षे दूरोत्सारितम् । शक्तस्य
शक्यकरणादिति चात्रासम्भाव्यम्; यदि हि केनचित् किञ्चि२५ निष्पाद्येत तदा निष्पादकस्य शक्तिर्व्यवस्थाप्येत निष्पाद्यस्य च करणं नान्यथा । कारणभावोप्यर्थानां न घंटते कार्यत्वाभावादेव ।
१ दध्यवस्थावत् । २ दध्यादि धर्मि केनचिजन्यं न भवति पूर्वमेव सर्वकारेण सत्त्वादित्युपरिष्टाद्योज्यम् । ३ इति अनुमानात् । ४ प्रधानं कस्यचित्कारणं न भवति । ५ दध्यादिकार्य धर्मि शक्तिरूपे कारणे नास्ति ततो भिन्नत्वात् । ६ ततो भिन्नत्वं स्यात्कारणे विद्यमानत्वं च स्यादिति सन्दिग्धानकान्तिकत्वे सत्याह । ७ शक्तिरूपस्य । ८ व्यक्तिरूपं दध्यादिकार्यम् । ९ घटस्य भावे पटस्य भावप्रसङ्गात् । १० विद्यमानापि क्रियमाणा चेत्। ११ अविश्रान्तिः । १२ परेणैव । १३ पदार्थस्य । १४ जैनः । १५ कारणस्य । १६ कार्यस्य । १७ निष्पावनिष्पादकभावाभावे शक्तिः करणं वा न व्यवस्थाप्यते । १८ कार्यस्य सर्वथा सत्त्वात्। १९ कारणापेक्षया ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org