________________
सू० २।१२] प्रकृतिकर्तृत्ववादः
२९१ न्यथाभावलक्षणपरिणामोपपत्तेः । नित्यैकान्तता तु तस्य व्याहन्येत । अत्र हि नैकदेशेन तत्त्यागो निरंशस्यैकदेशाभावात् । नापि सर्वात्मना; नित्यत्वव्याघातात् ।
किंच, प्रवर्त्तमा॑नो निवर्तमानश्च धर्मों धर्मिणोऽर्थान्तरभूतो वा स्यात्, अनर्थान्तरभूतो वा? यद्यर्थान्तरभूतः; तर्हि धर्मी तद-५ वैस्थ एवेति कथमसौ परिणतो नाम? न ह्यान्तरभूतयोरर्थयोरुत्पादविनाशे सत्यविचलितात्मनो वस्तुनः परिणामो भवति, अन्यथाऽऽत्मापि परिणामी स्यात् । तत्सम्बद्धयोर्धर्मयोरुत्पादविनाशात्तस्य परिणामः, इत्यप्यसुन्दरम् ; धर्मिणा सदसतोः सम्बन्धाभावात् । सम्बन्धो हि धर्मस्य सतो भवेत् , असतो वा?१० न तावत्सतः; स्वातन्त्र्येणं प्रसिद्धाशेषस्वभावसम्पत्तेरनपेक्षतया कचित्पारतन्त्र्याँसम्भवात् । नाप्यसतः, तस्य सर्वोपाख्याविरहलक्षणतया क्वचिदप्याश्रितत्वानुपपत्तेः । न खलु खरविषणादिः क्वचिदाश्रितो युक्तःनच प्रवर्त्तमानाप्रवर्त्तमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दर्शनपथप्रस्थायी कस्यचिदिति । अतः१५ स तादृशोऽसद्व्यवहारविषय एव विदुषाम् । अथानान्तरभूतः; तथाप्येकस्माद्धर्मिस्वरूपाव्यतिरिक्तत्वात्तयोरेकत्वमेवेति कथं परिणामो धर्मिणः, धर्मयोर्वा विनाशप्रादुर्भावौ धर्मिखरूपवत्? धर्माभ्यां च धर्मिणोऽनन्यत्वाद्धर्मखरूपवदपूर्वस्योत्पादः पूर्वस्य विनाश इति नैव कस्यचित्परिणामः सिध्यति । तस्मान्न परिणाम २० वशादपि भवतां कार्यकारणव्यवहारो युक्तः।
यच्चेदमुत्पत्तेः प्राकार्यस्य सत्त्वसमर्थनार्थमसदकरणादिहेतुपश्वकमुक्तम् । तद् असत्कार्यवादपक्षेपि तुल्यम् । शक्यते ह्येवम.. प्यभिधातुम्-'न सदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।' न सत्कार्यमिति २५ सम्बन्धः।
किञ्च, सर्वथा सत्कार्यम् , कथञ्चिद्वा? प्रथमपक्षोऽसम्भाव्यः; यदि हि क्षीरोदौ दध्यादिकार्याणि सर्वथा विशिष्टरसवीर्यविपाका
१ युवावस्थायाः। २ प्रधानस्य । ३ पूर्वरूपत्यागः। ४ उत्तरपरिणामलक्षणः । ५ पूर्वपरिणामलक्षणः। ६ पुरुषादेः। ७ सा अवस्था यस्य । पूर्वावस्थास्थः । ८ नित्यस्य । ९ प्रधानस्य । १० अभिन्नत्वात् । ११ पारतन्यं हि सम्बन्ध इति वचनात् । १२ उपाख्या स्वभावः । १३ धर्मिधर्मयोः । १४ धर्मयोविनाशप्रादुर्भावौ धर्मिणो न भवत इति साध्यो धर्मिणोऽनर्थान्तरत्वात् । १५ धी उत्पादविनाशवान् उत्पादविनाशरूपधर्माभ्यामभिन्नत्वाद्धर्मखरूपवत् । १६ सकाशात् । १७ सर्वेभ्यः कारणेभ्यः। १८ कारणे। १९ आदिना नवनीततक्रादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org