________________
२९०
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
ज्येत । आपेक्षिकत्वाद्वा तद्भावस्य, रूपान्तरस्य चापेक्षणीयस्याभावात्सर्वेषां पुरुषवत्प्रकृतिविकृतित्वाभावः । अन्यथा पुरुषस्यापि प्रकृतिविकृतिव्यपदेशः स्यात् ।
यञ्चेदम्-हेतुमत्त्वादिधर्मयोगि व्यक्तं विपरीतमव्यक्तम् । तदपि ५बालप्रलापमात्रम् ; न हि यद्यस्मादभिन्नखभावं तत्तद्विपरीतं युक्तं । भिन्नस्वभावलक्षणत्वाद्विपरीतत्वस्य । अन्यथा भेदव्यवहारोच्छे. द्यः(दः) स्यात् । सत्त्वरजस्तमसां चान्योन्यं भिन्नखभावनिवन्धनो भेदो न स्यादिति विश्वमेकरूपमेव स्यात् । ततो व्यक्तरूपाव्यतिरेकादव्यक्तमपि हेतुमत्त्वादिधर्मयोगि स्यात् व्यक्तस्वरूप१० वत् । व्यक्तं वाऽहेतुमत्त्वादिधर्मयोगि स्याव्यक्तवरूपाव्यति. रेकात्तत्स्वरूपवदित्येकान्तः।
किञ्च, अन्वयव्यतिरेकनिश्चयसमधिगम्यो लोके कार्यकारणभावः प्रसिद्धः। न च प्रधानादिभ्यो महदाधुत्पत्तिनिश्चयेऽन्वयो
व्यतिरेको वा प्रतीतोस्ति येन प्रधानान्महान्महतोऽहङ्कार इत्यादि १५ सिद्ध्येत्।
न च नित्यस्य कारणभावोस्ति, क्रमाऽक्रमाभ्यां तस्यार्थक्रियाविरोधात् । ननु नित्यमपि प्रधानं कुण्डलादौ सर्पवन्महदादिरूपेण परिणामं गच्छत्तेषां कारणमित्युच्यते, ते च तत्परिणामरू
पत्वात्तत्कार्यतया व्यपदिश्यन्ते । परिणामश्चैकवस्त्वऽधिष्ठान२० त्वादभेदेपि न विरुध्यते; इत्यप्यनेकान्तावलम्बने प्रमाणोपपन्नं नित्यैकान्ते परिणामस्यैवासिद्धेः। स हि तत्र भवन् पूर्वरूपत्यागाद्वा भवेत् , अत्यागाद्वा? यद्यत्यागात् । तदाऽवस्थासाङ्कर्य वृद्धाद्यवस्थायामपि युवाद्यवस्थोपलब्धिप्रसङ्गात् । अथ त्यागात्। तदा स्वभावहानिप्रसङ्गः। २५ किञ्च, सर्वथा तत्त्यागः, कथञ्चिद्वा? सर्वथा चेत्, कस्य
परिणामः? पूर्वरूपस्य सर्वथा त्यागादपूर्वस्य चोत्पादात् । कथञ्चित् चेत्, न किञ्चिद्विरुद्धम् , तस्यैवार्थस्य प्राच्यरूंपत्यागेना
१ अपेक्षणीयाभावेपि प्रकृतिविकृतिभावो भविष्यतीत्युक्ते आह । २ भिन्नलक्षणत्वा. कार्यकारणभावयोरित्यस्यापेक्षया वाशब्दः। ३ कार्यकारणभावस्य । ४ अपेक्षणीय स्याभावेपि कस्यचित्प्रकृतित्वं वा घटते चेत् । ५ अव्यक्तं धर्मि व्यक्ताद्विपरीतं न भवति तस्मादभिन्नस्वभावत्वात् । ६ विपरीतत्वं भिन्नस्वभावनिबन्धनं न भवतीति चेत् । ७ सर्व व्यक्तरूपमेवाऽव्यक्तरूपमेव वा स्यादिति । ८ ऋजुः सर्पो यथा कुण्डलाकारेण जायते स एव ऋज्वाकारेण जायते । कुण्डलादौ स्वर्णवदिति पाठान्तरम् । ९ द्रव्यतया पर्यायतया च । १० प्रधानस्यैव । मनुष्यलक्षणस्य वा। ११ बालावस्थायाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org