________________
सू० २।१२] प्रकृतिकर्तृत्ववादः २९३
किञ्च, एते हेतवो भवत्पक्षे प्रवृत्ताः किं कुर्वन्ति ? स्वविषये हि प्रवृत्तं साधनं द्वयं करोति-प्रमेयार्थविषये प्रवृत्तौ संशयविपयासौ निवर्त्तयति, निश्चयं चोत्पादयति । तच्च सत्कार्यवादे न सम्भवति । संशयविपर्यासौ हि भवतां मते चैतन्यात्मको, बुद्धिमनःस्वभावौ वा ? पक्षद्वयेपि न तयोनिवृत्तिः सम्भवति; चैतन्य-५ बुद्धिमनसां नित्यत्वेनानयोरपि नित्यत्वात् । नापि निश्चयस्योत्पत्तिः, तस्यापि सदा सत्त्वात्, इति साधनोपन्यासवैयर्थ्यम् । तस्मात्साधनोपन्यासस्यार्थवत्त्वमिच्छता निश्चयोऽसन्नेव साधनेनोत्पाद्यत इत्यङ्गीकर्त्तव्यम् । तथा चासदकरणादेर्हेतुगणस्यानेनैवानकान्तिकता। यथा चासतोपि निश्चयस्य करणम्, तनिष्प-१० त्तये च यथा विशिष्टसाधनपरिग्रहः, यथा चास्य न सर्वस्मात्साधनाभासादेः सम्भवः, यथा चासावसन्नपि शक्तैर्हेतुभिः क्रियते, तत्र च हेतूनां कारणभावोस्ति तथान्यत्रापि भविष्यति ।
अथ यद्यपि साधनप्रयोगात्प्राक्सन्नेव निश्चयः, तथापि न तत्प्रयोगवैयर्थ्य तदभिव्यक्तौ तस्य व्यापारात । तत्र केयमभि-१५ व्यक्तिः-किं स्वभावातिशयोत्पत्तिः, तद्विषयज्ञानं वा, तदुपल. म्भावरणापगमो वा? न तावत्स्वभावातिशयः; स हि निश्चयख. रूपादभिन्नः, भिन्नो वा? यद्यभिन्नः; तर्हि निश्चयखरूपवत् सर्वदा सत्त्वानोत्पत्तिर्युक्ता। अथ भिन्नः तस्यासाविति सम्बन्धाभावः । स ह्याधाराधेयभावलक्षणो वा, जन्यजनकभावलक्षणो २० वा? तत्राद्यपक्षोऽयुक्तः; परस्परमनुपकार्योपकारकयोस्तदसम्भवात् । उपकारे वा तस्याप्यर्थान्तरत्वे सम्बन्धासिद्धिरनवस्था च। अनर्थान्तरत्वे साधनप्रयोगवैयर्थ्य निश्चयादेवोपकाराऽनर्थान्तरस्थातिशयस्योत्पत्तेः । अमूर्त्तत्वाच्ातिशयस्याधोगमनाभावान तस्य कश्चिदाधारो युक्तः, अधोगतिप्रतिबन्धकत्वेनाधारस्याव-२५ स्थितेः । नापि जन्यजनकभावलक्षणः; सर्वदैव निश्चयाख्यकारणस्य सन्निहितत्वेन नित्यमतिशयोत्पत्तिप्रसङ्गात् । न च साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम्, अनुपकारिण्यपेक्षाऽयोगात् । उपकारित्वे वा पूर्ववद्दोषोऽनवस्था च ।
अपि चायमतिशयः सन् , असन्वा क्रियेत? असत्त्वे पूर्व-३० वत्साधनानामनैकान्तिकतापत्तिः। सत्त्वे च साधनवैयर्थ्यम् ।
१ महदादावपि । २ निश्चयस्वभावातिशययोः । ३ निश्चयेनातिशयस्य । ४ अतिशयात् । ५ ग्रन्थस्य । ६ निश्चयेनातिशयस्य क्रियमाण उपकारः अतिशयादनान्तरमित्यस्मिन् दूषणमाह । ७ उपकाराय। ८ न तूपकारकस्योत्पत्तिः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org