________________
२८६
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
मनश्च सङ्कल्पलक्षणम्-'भोजनार्थ हि तत्र गृहे यास्यामि किं दधि भविष्यति गुडो वा भविष्यति' इत्येवं सङ्कल्पवृत्तिर्मनः। पञ्चभ्यश्च तन्मात्रेभ्यः पञ्च भूतानि-शब्दादाकाशं, स्पर्शाद्वायू, रूपात्तेजः, रसादापः, गन्धात्पृथ्वीति । पुरुषश्चेति । पञ्चविंशतितत्त्वानि । ५ प्रकृत्यात्मकाश्चैते महदादयो भेदा; न त्वऽतोऽत्यन्तमेदिनो लक्षणभेदाभावात् । तथाहि
"त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥"
[सांख्यका० ११] १० लोके हि यदात्मकं कारणं तदात्मकमेव कार्यमुपलभ्यते यथा
कृष्णैस्तन्तुभिरारब्धः पटः कृष्णः । एवं प्रधानमपि त्रिगुणात्मकम् , तथा बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतात्मकं व्यक्तमपि । तथाऽविवेकि-'इमे सत्त्वाय इदं च महदादि व्यक्तम्' इति पृथक
न शक्यते । किन्तु 'ये गुणास्तद्यक्तं ययक्तं ते गुणाः' इति । तथा १५ व्यक्ताव्यक्तद्वयमपि विषयो भोग्यस्वभावत्वात् । सामान्यं च सर्व.
पुरुषाणां भोग्यत्वात्पण्यस्त्रीवत् । अचेतनात्मकं च सुखदुःखमोहावेदकत्वात् प्रसवधर्मिवत् । तथाहि-प्रधानं बुद्धिं जनयति, बुद्धिरप्यहङ्कारम् , अहङ्कारोपि तन्मात्राणीन्द्रियाणि चैकादश,
तन्मात्राणि च महाभूतानीति । २० प्रकृतिविकृतिभावेन परिणामविशेषाल्लक्षणभेदोग्यविरुद्धः । यथोक्तम्
"हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यंक्तं विपरीतमव्यक्तम् ॥"
[सांख्यका० १०] २५ व्यक्तमेव हि कारणवत्। तथाहि-प्रधानेन हेतुमती बुद्धिः, बुध्या चाहङ्कारः, अहङ्कारेण पञ्च तन्मात्राण्येकादश चेन्द्रियाणि, भूतानि तन्मात्रैः। न त्वेवमव्यक्तम्-तस्य कुतश्चिदनुत्पत्तेः । तथा व्यक्तमनित्यम् उत्पत्तिधर्मकत्वात् , नाव्यक्तम् तस्यानु.
१ महादादिकार्य त्रिगुणादिरूपेण व्यक्तम् । २ व्यक्ताऽव्यक्ताभ्याम् । ३ प्रधानमेव त्रिगुणात्मकम् । महदादिकार्य कथं त्रिगुणात्मकं स्यादित्युक्ते सत्याह । ४ आदि. पदेन रजस्तमसी। ५ पुरुषेण। ६ स्वरूपावस्थानम् । ७ लक्षणभेदाभावात्कथं कार्यकारणभावः स्यादित्युक्ते आह । ८ महदादि । ९ प्रधानम् । १० हेतुमान् । ११ महदादि कार्यम् । १२ कारणात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org