SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सू० २/१२] ततो महेश्वरस्य शेषजगत्कर्तृत्वप्रसाधकस्यानवद्यप्रमाणस्यासम्भवात् कुतोऽनादिमुक्तत्व सिद्धिर्यतोऽनाद्यशेषशत्वमस्य स्यात् ? प्रयोगः - क्षित्यादिकं नैकैकस्वभावभावपूर्वकं विभिन्न देशकालाकारत्वात् यदित्थं तदित्थम् यथा घटपटमकुटशकटादि, विभिन्न देशकालाकारं चेदम् तस्मान्नैकैकस्वभावभावपूर्वक ५ मिति । न चेदमसिद्धं साधनम् ; उर्वीपर्वततर्वाद धर्मिणि विभिनदेशकालाकारत्वस्य सुप्रसिद्धत्वात् । नाप्यनैकान्तिकं विरुद्धं वा, विपक्षस्यैकदेशे तत्रैव वा वृत्तेरभावात् । " प्रकृतिकर्तृत्ववादः नन्वेकस्याप्यनेककार्यकरणकुशलस्य कर्त्तर्विचित्र सहकारिसानिध्ये विचित्रकार्यकारित्वं दृश्यते, अतोऽनेकान्तः इत्यप्यनुपप- १० न्नम् ; तत्राप्येकस्वभावत्वस्यासिद्धेः स्वरूपमभेदयतां सहकारित्वस्यासम्भवप्रतिपादनात् । नापि कालात्ययापदिष्टम् प्रत्यक्षाग माभ्यां पक्षस्यावाध्यमानत्वात् । न हि क्षित्यादौ विचित्रकार्ये प्रत्यक्षेणैकैकस्वभावः कर्त्तोपलभ्यते, तस्यातीन्द्रियतया प्रत्यक्षागोचरत्वस्य प्रागेव प्रतिपादनात् आगमस्यापि तत्प्रतिपादकस्य १५ प्रागेव प्रतिषेधात् । नापि सत्प्रतिपक्षम् ; विपरीतार्थोपस्थापकस्यानुमानान्तरस्याभावात्, कार्यत्वादिहेतूनां चात्रैवानेकदोषदुष्टृत्वप्रतिपादनादिति । , " " ननु साधूक्तमावरणापाये सर्वशत्वमिति । तत्तु प्रकृतेरेव अत्रेवावरणसम्भवात् नात्मनस्तस्यावरणाभावात् “ प्रधानपरिणामः २० शुक्कं कृष्णं च कर्म" [ ] इत्यभिधानात् । निखिलजगकर्तृत्वाच्चास्या एवाशेषज्ञत्वमस्तु तदेतद्व्यसमीक्षिताभिधःनम् कर्मणः प्रधानपरिणामताप्रतिषेधात् सकलजगत्कर्तृत्वा चासिद्धेः । ननु प्रकृतिप्रभवैवेयं जगतः सृष्टिप्रक्रियों, तत्कथं तस्यास्तत्कर्तृत्वासिद्धिः ? तथा हि २५ २८५ " प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥" [ सांख्यका० २१] प्रथमं हि प्रकृतेर्महान् = विषयाध्यवसाय लक्षणा बुद्धिरुत्पद्यते । बुद्धेश्वाहङ्कारोऽहं सुभगोऽहं दर्शनीय इत्याद्यभिमानलक्षणः | ३० अहङ्कारात्पञ्च तन्मात्राणि शब्दस्पर्शरूपरसगन्धात्मकानि इन्द्रि याणि चैकादश पञ्च बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघाणलक्षणानि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थसंज्ञा नि, Jain Educationa International १ कञ्चनातिशयमकुर्वताम् । २ प्रकृतेः । ३ क्रमः । For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy