________________
२७८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तर्हि तच्छरीरस्य शरीरत्वाविशेषेपि नित्यत्वलक्षणः खंभावातिक्रमो यथाभ्युपगम्यते, तथा भूरुहादेः कार्यत्वे सत्यप्यकर्तृपूर्वकत्वलक्षणोप्यभ्युपगम्यताम् इति से एव तैर्व्यभिचारः कार्यत्वादेः । तन्न प्रतिबन्धप्रतिपत्तिलक्षणा व्युत्पत्तिस्तेषाम् । ५ अथ तन्यतिरिक्ता व्युत्पत्तिः; सा स्वदुरागमाहितवासनावतां भवतु, न पुनस्तावन्मात्रेण कार्यत्वादेः साध्यं प्रति गमकत्वम् । अन्यथा वेदे मीमांसकस्य वेदाध्ययनवाच्यत्वादेरपौरुषेयत्वं प्रति गमकत्वं स्यात् ।
बच्चोक्तम्-'साध्याभावेपि प्रवर्त्तमानो हेतुर्व्यभिचारीत्युच्यते । १० न च तत्र कर्बभावो निश्चितः किन्त्वग्रहणम्' इति; तदुक्तिमात्रम् प्रंमाणाविषयत्वेपि स्थावरादौ कत्रऽभावानिश्चये गगनादौ रूपाद्यभावानिश्चयः स्यात् । तत्र रूपादीनां बाधकप्रमाणसद्भावेनाभावनिश्चये अत्रापि तथा कर्बभावनिश्चयोस्तु । न चास्यानुपलब्धि
लक्षणप्राप्तत्वादभावानिश्चयः; शरीरसम्बन्धेन हि कर्तृत्वं नान्यथा १५मुक्तात्मवत्, तत्सम्बन्धे चोपलब्धिलक्षणप्राप्तत्वप्रसङ्गः कुम्भकारादिवत् । तस्य हि शरीरसम्बन्ध एव दृश्यत्वं नान्यत्, खरूपेणात्मनोऽदृश्यत्वात् पिशाचादिशरीरवत् । तच्छरीरस्यादृश्यत्वोपगमे च किञ्चित्कार्यमप्यबुद्धिपूर्वकं स्यादित्युक्तम् ।
यत्तूक्तम्-क्षित्याद्यन्वयव्यतिरेकानुविधानात्तेषामेव कारणत्वे २० धर्माधर्मयोरपि तन्न स्यात्; तन्न सूक्तम् ; जगद्वैचित्र्यान्य थानुपपत्त्या तयोस्तत्कारणत्वप्रसिद्धः । भूम्यादेः खलु सकलकार्य प्रति साधारणत्वात् अदृष्टाख्यविचित्रकारणमन्तरेण तद्वैचित्र्यानुपपत्तिः सिद्धा।
यदप्युक्तम्-तत्र बुद्धिमतोऽभावादग्रहणं भावेप्यनुपलब्धिल२५क्षणप्राप्तत्वाद्वेति सन्दिग्धव्यतिरेकित्वे सकलानुमानोच्छेदः ।
यया सामथ्या धूमादिर्जन्यमानो दृष्टस्तां नातिवर्त्तत इत्यन्यत्रापि समानम् । तदप्ययुक्तम्; याँहग्भूतं हि घटादिकार्य यादग्भूतसा. मैंग्रीप्रभवं दृष्टं तोडग्भूतस्यैव तदतिक्रमाभावो नान्यादृग्विधस्य धूमादिवदेवेत्युक्तं प्राक् ।
१ अनित्यत्वरूपस्वभावस्य । २ पूर्वोक्त एव । ३ स्थावरादिभिः। ४ भूरुहादीनाम् । ५ व्युत्पन्नानाम् । ६ योग। ७ परेण । ८ कर्तुः। ९ फर्तुः। १० ईश्वरस्य । ११ अशरीरस्वात्तस्य । १२ईभर। १३ अक्रियादर्शिनः कृतवुयुत्पादकम् । १४ चकादिरूप । १५ कार्यस्य ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org