________________
सू० २।१२]
ईश्वरवादः
२७७
घटादिलक्षणकार्यविशेषस्य तु कारणविशेषेणाविनाभावावगमः चान्दनादिधूमविशेषस्याग्निविशेषेणाविनाभावावगमवत् । तथापि कार्यमात्रस्य कारणविशेषानुमापकत्वे धूमादिकार्यविशेषस्य महानसादौ तत्कालवन्ह्यविनाभावोपलम्भाद् धूमघटिकादौ तन्मात्रं तत्कालवन्ह्यनुमापकं स्यात् । अथ तत्र तत्कालवन्ानुमाने प्रत्य-५ क्षविरोधः; सोऽकृष्टजाते भूरुहादौ कत्रऽनुमानेपि समानः । तत्कर्तुरतीन्द्रियत्वात्तदविरोधे धूमपटिकादौ वह्वेरप्यतीन्द्रियत्वात्सोस्तु । भास्वररूपसम्बन्ध्यवयविद्रव्यत्वान्नातीन्द्रियत्वं तस्येति चेत्, एतदेव कुतोऽवसितम् ? महानसादौ तथाभूतस्यास्योपलम्भाच्चेत्, तर्हि क्षित्यादिकर्तुः शरीरसम्बन्धिनोऽतीन्द्रि-१० यत्वं मा भूत्कुम्भकारादौ तस्यानुपलम्भात् ।
ननु वृक्षशाखाभङ्गादौ पिशाचादिः, स्वशरीरावयवप्रेरणे चात्माऽशरीरोऽपि कर्त्तापलब्धः; इत्यप्यसुन्दरम् ; पिशाचादेः शरीरसम्बन्धरहितस्य कार्यकारित्वानुपपत्तेर्मुक्तात्मवत् । तत्सम्बन्धेनैव हि कुम्भकारादौ कार्यकारित्वं दृष्टं नान्यथा । तत्सम्ब-१५ न्धोपैगमे चास्य दृश्यत्वप्रसङ्गः कुम्भकारादिवत् । तच्छरीरस्य दृश्यत्वादृश्योसौ न पिशाचादिर्विपर्ययादिति चेत् । ननु शरीरत्वाविशेषेपि यथास्मदादिशरीरविलक्षणं तच्छरीरमभ्युपगम्यते तथा घटादिकार्यविलक्षणं भूरुहादिकार्य कार्यत्वाविशेषेप्यभ्युपगम्यताम् । तथा चानेन प्रकृतो हेतुर्व्यभिचारी । तथास्मदादेः२० शरीरसम्बन्धमात्रेणैव तवयवानां प्रेरकत्वोपपत्ते परशरीरसम्बन्धस्तंत्रोपयोगी 'तत्सम्बन्धमन्तरेण हि चेतनस्य स्वशरीरावयवेष्वन्यत्र वा कार्यकारित्वं नास्त्यनुपलम्भात्' इत्येतावन्मात्रमेव नियम्यत इति महेश्वरस्यापि शरीरसम्बन्धेनैव कर्तृत्वमभ्यु. पगन्तव्यम् ।
तच्छरीरं च तत्कृतं यद्यभ्युपगम्यते; तर्हि शरीरान्तरं तस्याभ्युपगन्तव्यमित्यनवस्थातः प्रकृतकार्ये तस्याऽव्यापारोऽपरापर• शरीरनिर्वर्त्तने एवोपक्षीणशक्तिकत्वात् । तदनिष्पाद्यं चेत् ; तत्कि कार्यम् , नित्यं वा ? प्रथमपक्षे तेनैव हेतोर्व्यभिचारस्तस्य कार्यत्वेप्यबुद्धिमत्पूर्वकत्वात् । बुद्धिमत्कारणान्तरपूर्वकत्वे चानवस्था, ३० तच्छरीरस्याप्यपरबुद्धिमत्कारणान्तरपूर्वकत्वात् । नित्यं चेत्,
१ कार्यविशेषस्यैव कारणविशेषेण व्याप्तिसिद्धावपि । २ गोपालघटिकादौ । ३ गोपालघटिकादौ। ४ अस्मदाद्यात्मा। ५ परेण । ६ ईश्वरस्य । ७ भूरुहादिना । ८ अवयवप्रेरणे । ९ अवयवप्रेरणे। १० तहिं । ११ परेण । १२ हि । १३ परेण। १४ क्षित्यादिकायें।
प्र. क. मा० २४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org