________________
सू० २।१२] ईश्वरवादः
२७९ - यच्चेदमुक्तम्-ज्ञानचिकीर्षाप्रयत्नाधारता हि कर्तृता न सशरीरेतरता; इत्यप्यसङ्गतम् ; शरीराभावे तदाधारत्वस्याप्यसम्भवान्मुक्तात्मवत् । तेषां खलूत्पत्तौ आत्मा समवायिकारणम् , आत्ममनःसंयोगोऽसमवायिकारणम्, शरीरादिकं निमित्तकारणम् । न च कारणत्रयाभावे कार्योत्पत्तिरनभ्युपगमात् । अन्यथा मुक्ता-५ मनोपि ज्ञानादिगुणोत्पत्तिप्रसङ्गात् "नवानां गुणनामत्यन्तोच्छेदो मुक्तिः" [
] इत्यस्य व्याघातः । निमित्तकारणमन्तरेणाप्येषामुत्पत्तौ च बुद्धिमत्कारणमन्तरेणाप्यकुररादेः किं नोत्पत्तिः स्यात् ? नित्यत्वाभ्युपगमात्तेषामदोषोयमित्ययुक्तम् । प्रमाणविरोधात् । तथाहि-नेश्वरज्ञानादयो नित्यास्तत्त्वा-१० दमदादिज्ञानादिवत् । तज्ज्ञानादीनां दृष्टस्वभावातिक्रमे भूरुहादीनामपि स स्यात् ।
न चाऽचेतनस्य चेतनानधिष्ठितस्य वास्यादिवत्प्रवृत्यसम्भवात्, सम्भवे वा निरभिप्रायाणां देशादिनियमाभावप्रसङ्गात् तदधिष्ठातेश्वरः सकलजगदुपादानादिज्ञाताभ्युपगन्तव्यः इत्य-१५ भिधांतव्यम् ; तज्ज्ञत्वेनास्याद्याप्यसिद्धः । न चास्य तत्कर्तृत्वादेव तज्ज्ञत्वम् । इतरेतराश्रयानुषङ्गात्-सिद्ध हि सकलजगदुपादानाद्यभिज्ञत्वे तत्कर्तृत्वसिद्धिः, तत्सिद्धौ च तदभिज्ञत्वसिद्धिः। अचेतनवच्चेतनस्यापि चेतनान्तराधिष्ठितस्य विष्टिकर्मकरादिवत् प्रवृत्त्युपलम्भात् , महेश्वरेप्यधिष्ठात चेतनान्तरं परिकल्पनीयम् ।२० खामिनोऽनधिष्ठितस्यापि प्रवृत्युपलम्भोऽकृष्टोत्पन्नाङ्कुराधुपादाने समानः। घटाधुपादानस्यानधिष्ठितस्याप्रवृत्त्युपलम्भात् तथाङ्कुराधुपादानस्यापि कल्पने विष्टिकर्मकरादेः स्वाम्यनधिष्ठितस्याप्रवृ. तेर्महेश्वरेपि तथा स्यात्, तथा चानवस्था । चेतनस्याप्यपरचेतनाधिष्ठितस्य प्रवृत्त्यभ्युपगमे च 'अचेतनं चेतनाधिष्ठितम' २५ इत्यत्र प्रयोगेऽचेतनमिति धर्मि विशेषणस्याचेतनत्वादिति हेतो. श्वापार्थकत्वम् , व्यवच्छेद्याभावात् । खहेतुप्रतिनियमाच्च अचेतनस्यापि देशादिनियमो ज्यायान् , तस्य भवताप्यवश्याभ्युपगमनीयत्वात् , अन्यथा सर्वत्र सर्वदा सर्वकार्याणामुत्पत्तिः स्यात्, चेतनस्याधिष्ठातुर्नित्यव्यापित्वाभ्यां सर्वत्र सर्वदा सन्निधानात् । ३०
१ ग्रन्थस्य । २ अप्रेरितस्य । ३ ज्ञानशून्यान'म् (कारणानां)। ४ परेण । ५ पालकि डोली इति वा लोके ख्याता संस्कृते च शिबिकेति । ६ तर्हि । ७ चेतनस्य । ८ फलाभावात्। ९ स्वस्य कार्यस्य । १० उपादानकारण। ११ अदृष्टादेः । १२ युक्त इत्यर्थः । १३ योगेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org