________________
२७४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक तथापि व्यापारेऽदृष्टस्याप्यत्यादिदेशेऽसन्निहितस्योप्रज्वलनादिहेतुता स्यादिति-"अग्नेरूज्वलनम्" [प्रश० व्यो० पृ० ४११] इत्याद्यात्मसर्वगतत्वसाधनमयुक्तम् । अव्यतिरेकैकान्ते चात्ममात्रं बुद्धिमात्रं वा स्यात्, तत्कथं मत्वर्थः ? न हि तदेव तेनैव ५तद्वद्भवति।
किञ्च, असौ तबुद्धिः क्षणिका, अक्षणिका घा? यदि क्षणिका; तदा तस्याः कथं द्वितीयक्षणे प्रादुर्भावः कारणत्रयाधीनत्वात्तस्य ? न चेश्वरेऽसमवायिकारणमात्ममनःसंयोगस्तच्छरीरादिकं
च निमित्तं कारणमस्ति । कारणत्रयाभावेप्यस्मदादिवुद्धिवैलक्ष१० ण्यात्तस्याः प्रादुर्भावे क्षित्यादिकार्यस्य घटादिकार्यवैलक्षण्याद्बुद्धिमत्कारणमन्तरेणाप्युत्पत्तिः किन्न स्यात् ? महेश्वरबुद्धिवच्च मुक्तात्मनामप्यानन्दादिकं शरीरादिनिमित्तकारणमन्तरेणाप्युत्पत्स्यत इति कथं बुद्ध्यादिविकलं जडात्मस्वरूपं मुक्तिः स्यात् ?
अथाऽक्षणिका तद्बुद्धिः । नन्वत्रापि 'क्षणिकश्शब्दोमदादि१५प्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् सुखादिवत्' इत्यत्रानुमानेऽनयैव हेतोरनेकान्तोऽस्या इव विभुद्रव्यविशेषगुणत्वेऽन्यस्यास्मदादिप्रत्यक्षत्वेपि नित्यत्वसम्भवात् । तथा 'क्षणिका महेश्वरबुद्धिर्बुद्धित्वादस्मदादिबुद्धिवत्' इत्यनुमानविरोधश्च ।
अंथ बुद्धित्वाविशेषेपि ईशास्सदादिबुद्ध्योरक्षणिकत्वेतरलक्षणो २० विशेषः परिकल्प्यते तथा घटादिक्षित्यादिकार्ययोरप्यकर्तृकपूर्वकत्वलक्षणो विशेषः किन्नेष्यते ? तथा च कार्यत्वादिहेतोरनेकान्तः । तदेवं बुद्धिमत्त्वासिद्धेः कथं तत्कारणत्वेन कार्यत्वं व्याप्येत?
अस्तु वाऽविचारितरमणीयं बुद्धिमत्कारणत्वव्याप्तं कार्यत्वम् २५ तथाप्यत्र यादग्भूतं बुद्धिमत्कारणत्वेनाऽभिनवकूपप्रासादादौ व्याप्तं कार्यत्वं प्रमाणतः प्रसिद्धं यदक्रियादर्शिनोपि जीर्णकूपप्रा. सादादौ लौकिकेतरयोः कृतबुद्धिजनकं तादृग्भूतस्य क्षित्यादावसिद्धरसिद्धो हेतुः । सिद्धौ वा जीर्णकूपप्रासादादाविवाऽ
१ सुकृतस्य । २ अनेरूद्धस्थितमन्नादि, तस्य शुभपचनं भोक्तृदेवदत्तादृष्टेनेति । ३ नैयायिकमते आत्मनः सर्वगतत्वात्तद्गुणोऽदृष्टमपि सर्वगतमेवातो देशान्तरे कालान्तरे चान्नपाकपटमुक्ताफलादीन् तद्भोक्तदेवदत्तादृष्टं तत्र गत्वा सहकारिभूयोत्पादयति । ४ समवाय्यसमवायिनिमित्तति । ५ समवायिकारणं त्वात्मास्ति । ६ नैयायिकमते । ७ अक्षणिकबुद्धिपक्षेपि । ८ परममहापरिमाणेन व्यभिचारपरिहारार्थमेतत् । ९ परः । १० इतरः परीक्षकः । ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org