________________
सू० २।१२]
२७३
श्रद्धामात्रम् तयोस्ततोऽर्थान्तरत्वे सम्बन्धासिद्धिप्रसङ्गात् । समवायादेश्व कृतोत्तरत्वादित्यलमतिप्रसङ्गने ।
ईश्वरवादः
बुद्धिमत्कारणमित्यत्र च मत्वर्थस्य साध्यविशेषणस्यानुपपत्तिः । बुद्धिमतो हि बुद्धिर्व्यतिरिक्ता वा, अव्यतिरिक्ता वा ? तत्र तस्यास्ततो व्यतिरेकैकान्ते तस्येति सम्बन्धस्याभावः । सा हि ५ तस्य तद्गुणत्वात्, तत्समवायाद्वा, तत्कार्यत्वाद्वा, तदाधेयत्वाद्वा स्यात् ? न तावत्तगुणत्वात्सा तस्येत्यभिधार्तव्यम्; ततो व्यतिरेकैकान्ते सा तस्यैव गुणो नाकाशादेरिति व्यवस्थापयितुमशक्तेः । नापि तत्समवायात् तस्यैवासम्भवात् । सम्भवे वा तस्य ताभ्यां भेदैकान्ते व्यवस्थापकत्वायोगात्सर्वत्राविशेषाच्च । तत्कार्यत्वात्सा १० तस्येति चेत् कुतस्तत्कार्यत्वम् ? तस्मिन्सति भावात्; आकाशादौ प्रसङ्गः । तदभावेऽभावाच्चेन्नः नित्यव्यापित्वाभ्यां तस्य तदयोगात् । तदाधेयत्वात्सा तस्येति चेत् किमिदं तदाधेयत्वं नाम ? समवायेन तत्र वर्त्तनं चेत्तत्कृतोत्तरम् । तादात्म्येन वर्त्तनं चेन्न; अनभ्युपगमात् । सम्बन्धमात्रेण वर्त्तनं चेत् तर्हि घटादेर्भूत- १५ लादिगुणत्वप्रसङ्गः, सम्बन्धमात्रेण वर्त्तमानस्य तस्य तदाधेयत्वसम्भवात् ।
"
किञ्च, व्याध्या तेनास्यास्तत्र वर्त्तनम् अव्याहया वा ? न तावद्व्याघ्या; आत्म विशेष गुणत्वादस्मदा दिबुद्ध्यादिवत् । परममहापरिमाणेन व्यभिचारः इत्ययुक्तम् ; तत्र विशेषगुणत्वाभावात् । २० नन्वेवमस्मदादिबुद्ध्यादौ सकलार्थ ग्राहित्वाभावो दृष्टः सोपि तंत्र स्यादिति चेत् अस्तु नाम, दृष्टान्ते व्याप्तिदर्शनमात्रात्सर्वत्र साध्यसिद्धे भवताभ्युपगमात् । कथमन्यथा प्रकृतसिद्धिः ? यथा चास्मदादिबुद्धिवैलक्षण्यं तद्बुद्धेरदृष्टं परिकल्प्यते तथा घटादौ कर्मकर्तृकरण निर्वकार्यत्वं दृष्टं वने वनस्पत्यादिषु चेतनकर्त्तर-२५ हितमपि स्यादित्येतैर्व्यभिचारो हेतोः । अथाऽव्याध्याः तर्हि देशान्तरोत्पत्तिमत्कार्येषु कथं तस्या व्यापारः असन्निधानात् ?
१ समवायादिसम्बन्धनिराकरणविस्तरेण । २ किश्च । ३ साध्यं कारणं तस्य विशेषणं बुद्धिमत् । ४ परेण योगेन । ५ बुद्धिबुद्धिमद्भ्याम् । ६ बुद्धिमत इयं बुद्धिरिति । ७ गगनादौ समवायस्य व्यापकत्वात् । ८ चेतहिं । ९ खमपि सर्वदाऽस्ति यतः । १० सामस्त्येन । ११ आत्मविशेषगुणेन । १२ आकाशगुणश्वात्परममहापरिमाणस्य जैनानाम् । आत्मा तु तेषां देद्दपरिमाण इति । १३ व्याहया वर्त्तमानत्वप्रतिषेधे । १४ ईश्वरलक्षणे बुद्धिमति । १५ नैयायिकेन । १६ बुद्धिमस्कारणत्वस्य । १७ का । १८ परेण । १९ घट । २० कुम्भकार । २१ चक्रादि ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org