________________
२७२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० खरविषाणवत् । न चाजनक विषयः, उपलम्भकारणमुपेलम्भविषय इत्यभ्युपगमात् ।
प्रागसतः सत्तासम्बन्धेप्येतत्सर्वसमानम् । न समानम् ; खर शृङ्गादेः क्षित्यादिकार्यस्य, विशेषसम्भवात् । तद्ध्यत्यन्ताऽसत्, ५क्षित्यादिकं न सँन्नाऽप्यसत्सत्तासम्बन्धात्तु सत्; इत्यपि मनोरथमात्रम्; सत्त्वासत्त्वयोरेकत्रैकदा प्रतिषेधविरोधात् । 'न सत्' इत्यभिधानात्तस्य सत्तासम्बन्धात्प्रागभावः स्यात्सत्प्रतिषेधलक्षणत्वादस्य, 'नाप्यसत्' इत्यभिधानात्तु भावः, असत्त्वप्रतिषेधरूप
त्वात्तस्य रूपान्तराभावात् । ततोऽसदेव तदभ्युपगन्तव्यम् । १० तन्नास्य खरशृङ्गादेविशेषः।
किञ्च, सत्ता सती, असती वा? यद्यऽसती; कथं तया वन्ध्यासुतयेव सम्बन्धादन्येषां सत्त्वम् ? सती चेत्स्वतः, अन्यसत्तातो वा? यद्यन्यसत्तातोऽनवस्था । स्वतश्चेत् पदार्थानामपि खत एव
सत्त्वं स्यादिति व्यर्थ तत्परिकल्पनम् । १५ एतेन द्वितीयविकल्पोप्यपास्तः । कार्यस्य हि स्वतः सत्त्वोपगमे
किं तत्कल्पनया साध्यम् ? अनवस्थाप्रसङ्गात् । तदेवं कार्यत्वासिद्धरसिद्धो हेतुः।
किञ्च, कथञ्चित्कार्यत्वं क्षित्यादेः, सर्वथा वा ? सर्वथा चेत्पु. नरप्य सिद्धत्वं द्रव्यतोऽशेषार्थानामकार्यत्वात् । कथञ्चित् चेद्वि. २० रुद्धत्वम् ; सर्वथा बुद्धिमनिमित्तत्वात्साध्याद्विपरीतस्य कथञ्चि बुद्धिमन्निमित्तत्वस्य साधनात् ।
अनैकान्तिकं च आत्मादिभिः; तेषां बुद्धिमनिमित्तत्वाभावेपि तत्सम्भवात् । कथञ्चिदप्यकार्यत्वे चैतेषां कार्यकारित्वस्याभावस्तस्याऽकर्तृरूपत्यागेन कर्तृरूपोपादानाविनाभावित्वात् । तत्या२५ गोपादानयोश्चैकपे वस्तुन्यसम्भवात्सिद्धं कथञ्चित् कार्यत्वं तेषाम् । कर्तृत्वाकर्तृत्वरूपयोरात्मादिभ्योऽर्थान्तरत्वान्न तद्विनाशोत्पादाभ्यां तेषामपि तथाभावो यतः कार्यत्वं स्यात्; इत्यपि
१ प्रत्यक्षस्याजनकक्षित्यादिकम् । २ असत्त्वादेवाजनकम् । ३ प्रत्यक्षस्य । ४ प्रत्यक्षकारणं प्रत्यक्षजनकमित्यर्थः । ५ प्रत्यक्ष विषयः । ६ प्रागित्यादि । ७ सत्तासम्बन्धवैयर्थ्यप्रसङ्गात् । ८ खरविषाणादेरपि सत्तासम्बन्धप्रसङ्गात् । ९ न सदित्यस्य । १० सद्भावः। ११ परेण । १२ क्षित्यादीनाम् । १३ न वेत्ययम् । १४ कारणसमवायसत्तासमवायकल्पनया। १५ द्रव्यपर्यायाभ्याम् । १६ कार्यत्व । १७ कूटस्थ. नित्यस्येव । १८ नित्ये । १९ विनाशोत्पादः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org