________________
सू० २।१२] ईश्वरवादः
२७१ स्तैर्जन्यमानत्वलक्षणसावयवत्वसिद्धिः, तत्सिद्धौ च कार्यत्व. सिद्धिः, ततश्च परमाणुप्रसिद्धिरिति । महापरिमाणोपेतप्रशिथिलावयवकासपिण्डोपादानेन अतिनिबिडावयवाल्पपरिमाणोपेतकर्पासपिण्डेन अनेकान्तश्च । बलवत्पुरुषप्रयत्नप्रेरितहस्ताद्यभिः घातादवयवक्रियोत्पत्तेः अवयवविभागात् संयोगविनाशात् महा-५ कर्पासपिण्डविनाशः, अल्पकसपिण्डोत्पादस्तु खारम्भकाव. यवकर्मसंयोगविशेषवशादेव भवति; इत्यपि विनाशोत्पादप्रक्रि. योद्घोषणमात्रम्, प्रमाणतोऽप्रतीतेः । कासद्रव्यं हि महापरिमाणपिण्डाकारपरित्यागेनाल्पपरिमाणपिण्डाकाकारतयोत्पद्यमानं प्रमाणतः प्रतीयते । आशूत्पत्ते दानवधारणात्तथा प्रतीतिरित्य १० प्यसङ्गतम् ; सकलभावानां क्षणिकत्वानुषङ्गात् । अभेदाध्यवसायस्तु सदृशापरापरोत्पत्तिविलम्भादित्य निष्टसिद्धिप्रसंङ्गात् । नाप्यागमात्परमाण्वादिप्रसिद्धिस्तत्प्रामाण्याप्रसिद्धेः।
सावयवमिति बुद्धिविषयत्वमपि, आत्मादिनानैकान्तिकं तस्याकार्यत्वेपि तत्प्रसिद्धः । सार्वयवार्थसंयोगाग्निरवयवत्वेप्यस्य तद्भु.१५ द्धिविषयत्वमित्यौपचारिकम् । तदप्यसङ्गतम् । तस्य निरवयवत्वे व्यापित्वविरोधात् परमाणुवत् । तदपि ह्यौपचारिकमेव स्यात् । तदेवं सावयवत्वासिद्धेः कथं ततः क्षित्यादेः कार्यत्वसिद्धिः?
प्रागसतः खकारणसमवायात्, सत्तासमवायाद्वा तैत्सिद्धिश्चेत् ; कुतः प्राक् ? कारणसमवायाचेत् तत्समवायसमये प्रागि-२० वास्य स्वरूपसत्त्वस्याभावः, न वा? अभावे 'प्राक' इति विशे. षणमनर्थकम् । कार्यस्य हि कारणसमवायसमये स्वरूपेण सत्वसम्भवे तद्वत्प्रागपि सत्त्वे कार्यता न स्यात् । ततः प्रागित्यर्थवं. त्स्यात् । प्रागिव तत्समवायसमयेप्यस्य स्वरूपसत्त्वाभावे तु 'असतः' इत्येवाभिधातव्यम् । न चासतः कारणसमवायः; खर-२५ विषणादेरपि तत्प्रसङ्गात् । न चास्य कारणाभावान्न तत्प्रसङ्गः; इत्यभिधातव्यम्। क्षित्यादेरपि तदभावप्रसङ्गादसत्त्वाविशेषात् । क्षित्यादेः कारणोपलम्भान्न दोषः, इत्यप्यसारम् ; कार्यकारणयोरुपलम्मे हीदमस्य कारणं कार्य चेदमिति प्रति (वि)भागः स्यात् । न च प्रत्यक्षतः क्षित्यादेरुपलम्भोऽसतस्तस्य तजनकत्वविरोधात ३० - १ क्रिया । २ कथनमात्रम् । ३ पूर्वपिण्डविनाश एवोत्तरपिण्डोत्पत्तिरित्यमेदतया । ४ आशुवृत्तः । ५ विसंवादात् । ६ क्षित्यादिकं कार्य सावयवत्वादित्यस्य । ७ आदिपदेनाकाशादिना। ८ शरीरादिमूर्तिमद्भिः। ९ परमाणु। १० इह तन्तुषु पटसमवायो यथा । ११ क्षित्यादिकार्यत्वस्य । १२ क्षित्यादिकार्यत्वस्य । १३ नासतः इति विशेषणम् । १४ कारण। १५ न प्रागिति । १६ परेण त्वया ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org