________________
२७०
प्रमेयकमलमार्त्तण्डे
[ २. प्रत्यक्षपरि०
म्भकावयवसन्निवेशेविशिष्टत्वाद घटादिवत् । वैधम्र्येण परमाणवो यथा" [ ] द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं पृथिव्यप्तेः जोलक्षणं त्रिविधं द्रव्यमग्राह्यं वाय्वादिकम् । वायौ हि रूपसंस्काराभावादनुपलब्धिः रूपसंस्कारो रूपसमवायः । द्व्यणुका५ दीनां त्वमद्दत्वात् । उक्तं च- " मैहत्यनेकद्रव्यत्वाद्रूपविशेषार्थ रूपोपलब्धिः" [ वैशे० सू० ४ १२६ ]
प्रशस्तमतिना च; "सँर्गादौ पुरुषाणां व्यवहारोऽन्योपदेशपूर्वकः उत्तरकालं प्रबुद्धानां प्रत्यर्थनियतत्वादप्रसिद्धवाग्व्यव हाराणां कुमाराणां गवादिषु प्रत्यर्थनियतो वाग्व्यवहारो यथा १० मात्राद्युपदेशपूर्वकः " [ ] इति ।
उद्योतकरेण च “भुवनहेतवः प्रधानपरमाण्वदृष्टाः स्वकायत्पत्तावतिशयवद्बुद्धिमन्तमधिष्ठितारमपेक्षन्ते स्थित्वा प्रवृत्तेस्तन्तुतुर्यादिवत् । तथा, बुद्धिमत्कारणाधिष्ठितं महाभूतादि व्यक्तं सुखदुःखनिमित्तं भवत्यचेतनत्वात्कार्यत्वाद्विनाशित्वाद्रूपादिम१५ त्वाद्वा वास्यादिवत् । " [ न्यायवा० पृ० ४५७ ] इत्यनवद्यं भगवतः प्रलयकालेऽप्यलुप्तज्ञानाद्यतिशयस्य साधनम् ।
अत्र प्रतिविधीयते - सावयवत्वात्कार्यत्वं क्षित्यादेः प्रसाध्यते । तत्र किमिदं सावयवत्वं नाम ? सहावयवैर्वर्त्तमानत्वम्, तैर्जन्यमानत्वं वा, सावयवमिति बुद्धिविषयत्वं वा ? प्रथमपक्षे सामा२० न्यादिनानेकान्तः; गोत्वादि सामान्यं हि सहावयवैर्वर्त्तते, न च कार्यम् । द्वितीयपक्षेप्यसिद्धो हेतुः परमाण्वाद्यवयवानां प्रत्यक्षतोसिद्धौ क्षित्यादेस्तज्जन्यमानत्वस्याप्यसिद्धेः । प्रत्यक्षानुपलम्भसाधनश्च कार्यकारणभावः । द्व्यणुकादिकं खपरिमाणादल्पपरिमाणोपेतकारणारब्धं कार्यत्वात्पटादिवदित्यनुमानात्तेषां प्रसिद्धिः; ३० इत्यप्यसमीचीनम् ; चक्रकप्रसङ्गात् - परमाणुप्रसिद्धौ हि क्षित्यादे
१६
१ परमाणु । २ रचना विशेष । ३ व्यतिरेकेण । ४ आदिपदेन द्वयणुकादिकम् । ५] अनेकद्रव्यत्वाद्रूपविशेषाच्चेत्युच्यमाने द्वयणुकादौ रूपोपलब्धिः स्यात्तद्व्यवच्छेदार्थं महतीति पदम् । ६ महत्यनेकद्रव्यत्वादित्युच्यमाने वायावपि रूपोपलब्धि: स्यात्तद्वयवच्छेदार्थं रूपविशेषादित्युक्तम् । ७ सृष्टिप्रारम्भे । ८ आदिपदेन पित्रादि । ९ साङ्ख्यो
नास्य प्रयोगः | १० मीमांसकाद्युद्देशेनास्य पदस्य प्रयोगः । ११ खण्डमुण्डशावलेयत्वादिस्वव्यक्तिभिः सह वर्त्तते । १२ नित्यत्वात्तस्य । १३ धणुकादि । ४ घट मृत्पिण्डादौ कार्यकारणभावः प्रत्यक्षतः सिद्धो द्वयणुकपरमाण्वादौ तु कार्यकारणभावोऽनुमानादिति भावः । १५ बुद्ध्या ( व्यापकत्वान्महत्परिमाणोपेतात्मनः कार्यत्वाहुद्ध्यादेः ) व्यभिचारपरिहारार्थं द्रव्यत्वे सतीति विशेषणं द्रष्टव्यम् । १६ परमाण्वादीनाम् । १७ त्रिभिरावर्त्तनं चक्रकदूषणम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org