________________
सू० २।१२] ईश्वरवादः विशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टमेवं वरूपपरेष्वपि वाक्येषु स्यात्, वाक्यरूपताया अविशेषाद्विशेषहेतोश्चाभावात् । तथा वरूपार्थानामप्रामाण्ये "मेध्या आपो दर्भः पवित्रममेध्यमशुचि" इत्येवंस्वरूपापरिज्ञाने विध्यङ्गतायामविशेषेण प्रवृत्तिनिवृत्ति-५ प्रसङ्गः । न चैतदस्ति, मेध्येष्वेव प्रवर्तते अमेध्येषु च निवर्तते इत्युपलम्भात् ।
एवं प्रमाणप्रसिद्धो भगवान् कारुण्याच्छरीरादिसर्गे प्राणिनां प्रवर्त्तते । न चैवं सुखंसाधन एव प्राणिसंर्गोऽनुषज्यते; अदृष्टसहकारिणः कर्तृत्वात् । यस्य यथाविधोऽदृष्टः पुण्यरूपोऽपुण्यरूपो १० वा तस्य तथाविधफैलोपभोगाय तत्सापेक्षस्तथाविधेशरीरादीन्सजतीति । अदृष्टप्रक्षयो हि फलोपभोगं विना न शक्यो विधातुम् ।
न चादृष्टादेवाखिलोत्पत्तिरस्तु किं कर्तृकल्पनयेति वाच्यम्। तस्याप्यचेतनतयाधिष्ठात्रपेक्षोपपत्तेः। तथाहि-अदृष्टं चेतनाधिष्ठितं कार्य प्रवर्ततेऽचेतनत्वात्तन्त्वादिवत् । न चास्मदाद्यात्मैवा-१५ धिष्ठायकः; तस्यादृष्टपरमाण्वादिविषयविज्ञानाभावात् । न च (चा) चेतनस्याकस्मात्प्रवृत्तिरुपलब्धा, प्रवृत्तौ वा निष्पन्नेपि कार्ये प्रवर्तेत विवेकशून्यत्वात् ।
तथा वार्तिककारेणापि प्रमाणद्वयं तत्सिद्धयेऽभ्यधायि"महाभूतादि व्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्तं २० रूपादिमत्वात्तुर्यादिवत् । तथा पृथिव्यादीनि महाभूतानि बुद्धिमत्कारणाधिष्ठितानि स्वासु धारणाद्यासु क्रियासु प्रवर्त्तन्तेऽनित्यत्वाद्वास्यादिवत् ।" [न्यायवा० पृ० ४६७ ]
तथाऽविद्धकर्णेन च-"तनुकरणभुवनोपादानोंनि चेतनाधिष्ठितानि स्वकार्यमारभन्ते रूपादिमत्त्वात्तन्त्वादिवत् ।" तथा,२५ "द्वीन्द्रियग्राह्याग्राह्यं विमतिभौवापन्नं बुद्धिमत्कारणपूर्वकं स्वार.. १ किञ्च । २ प्रवृत्तिप्रतिपादकस्य । ३ विधिवाक्यप्रकारेण । ४ शब्दार्थ । ५ स्वार्थप्रतिपादकद्वारेण विध्यङ्गता। ६ वेदवाक्यानाम् । ७ कारुण्यात्प्रवर्तनेन । ८ सुखजनकः । ९ प्राणिसम्बन्धी शरीरादिसर्गः। १० प्राणिनः । ११ सुखदुःखादि. जनक । १२ भगवान् । १३ सुखदुःखादिजनकान् । १४ अपि तु न भगवतः । १५ जैनादिभिः। १६ प्रेरितम् । १७ प्रेरकः । १८ कारणं विना। १९ ईश । २० परमाणुव्यवच्छेदार्थ महदिति पदम् । २१ पृथिव्यादि। २२ कार्यम् । २३ यथा वार्तिककारेणाभ्यधायीति पूर्वेण सम्बन्धः। २४ परमाण्वादिकारणानि । २५ क्षित्यादिकम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org