________________
सू० २।१२] ईश्वरवादः
२७५ क्रियादर्शिनोपि केतबुद्धिप्रसङ्गः । न च प्रेकृत्याऽत्यन्तभिन्नोपि धर्मः शब्दमात्रेणाभेदी हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये समर्थो भवत्यन्यत्राप्यस्याविरोधेनाशङ्काऽनिवृत्तेः। यथा वल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकारत्वमात्रं हेतुत्वेनोपादी
यमानम्।
नन्वतंत्कार्यसमं नाम जात्युत्तरम् । तदुक्तम्-"कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं तत्कार्यसमम्" [ ] इति । अस्य चासदुत्तरत्वान्नातः प्रकृतसाध्यसिद्धिप्रतिबन्धोऽन्यथा सकलानुमानोच्छेदः । शब्दानित्यत्वे हि साध्ये किं घटादिगतं कृतकत्वं हेतुत्वेनोपादीयते, किं वा शब्दगतम्, उभयगतं वा ११० प्रथमपक्षे हेतोरसिद्धिः; न ह्यन्यगतो धर्मोऽन्यत्र वर्त्तते । द्वितीये तु साधनविकलो दृष्टान्तः । तृतीयेप्युभयदोषानुषङ्गः, इत्यप्यसारम् ; कारणमात्रजन्यतालक्षणस्य कृतकत्वस्य विपक्षे बाँधकप्रमाणबलादनित्यत्वमात्रव्याप्तत्वेनाऽवधारितस्य शब्देप्युपलम्भात् तत्रोक्तदूषणस्यासदुत्तरत्वाजात्युत्तरत्वम् । न चैवं कार्यसामान्यं १५ बुद्धिमत्कारणत्वमात्रव्याप्तं क्षित्यादावुपलभ्यते, विपक्षे बाधकप्रमाणाभावेन सन्दिग्धानकान्तिकत्वात्तस्य, अन्यथाऽक्रियादर्शिनोपि केतवुद्धिप्रसङ्गः । यदि च घटादिलक्षणं विशिष्टकार्य तन्मात्रैव्याप्तं प्रतिपद्याऽविशिष्टकार्यस्यापि क्षित्यादेस्तत्पूर्वकत्वं साँध्यते; तर्हि पृथ्वीलक्षणभूतस्य रूपरसगन्धस्पर्शवत्त्वं प्रतिपद्य २० भूतत्वादेव वायोरपि तत्साध्यताम् । अथाऽत्र प्रत्यक्षादिप्रमाणबाधा, सोन्यत्रापि समानः।
- १ क्षित्यादौ । २ स्वभावेन । ३ कार्यत्वशब्देन । ४ बुद्धिमद्धेतुकत्व । ५ विपक्षेऽबुद्धिमद्धेतुकत्वादौ । ६ कृतबुद्धयुत्पादकरूपस्य कार्यस्य । ७ क्षित्यादिकं घटादिवद् बुद्धिमद्धेतुकं तादिवदबुद्धिमद्धे तुकं वेत्याशङ्का । ८ वल्मीकः कुम्भकार कृतो भवति मृद्विकारत्वाद् घटादिवत् । ९ पूर्वोक्तम् । १० भेदलेशः स कीदृशः कृतबुद्धधनुत्पादकः । ११ बुद्धिमद्धेतुकत्व । १२ कार्यसमजात्युत्तरात् । १३ घटादिगतकृतकत्वस्य शब्देऽभावात् । १४ शब्दगतकृतकत्वस्य घटादावभावात् । १५ नित्ये । १६ यन्नित्यं तन्न कृतकं यथाकाशमिति ज्ञानबलात् । १७ बुद्धिमत्कारणरहिते तर्वादौ । १८ बुद्धिमत्कारणरहिते तादौ कार्यसामान्यं वर्तते बुद्धिमत्कारणसहिते घटादौ च कार्यसामान्य वर्तते । तत्कि बुद्धिमद्धेतुकमबुद्धिमद्धेतुकं वेति सन्दिग्धानकान्तिकत्वम् । १९ कार्य. स्वस्य । २० विपक्षे वाधकं प्रमाणं यदि स्यात् । २१ क्षित्यादौ । २२ दृष्टान्ते इव । २३ अक्रियादर्शिनोपि कृतबुद्धयुत्पादकत्वमात्रव्याप्तम् । २४ अक्रियादर्शिनः कृतबुद्ध्यनुत्पादकस्य । २५ परेण । २६ क्षित्यादौ बुद्धिमद्धेतुपूर्वकत्वेपि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org