________________
सू० २।१२] सर्वज्ञत्ववादः
२४७ यतीति तत्कथमस्यावरणापायप्रभवत्वम् ? इत्यप्यसारम् । क्षणिकनैरात्म्यादिभावनायाश्चिन्तामय्याः श्रुतमय्याश्च मिथ्यारूपत्वात् । न च मिथ्याज्ञानस्य परमार्थविषययोगिज्ञानजनकत्वमतिप्रेसङ्गात् । यथा च न क्षणिकत्वं नैरात्म्यं शून्यत्वं वा वस्तुनस्तथा वक्ष्यते।
किञ्च, अखिलप्राणिनां भावनावतां तथाविधज्ञानोत्पत्तिः किन्न स्यात् सुगतवत् ? तेषां तथाभूतभावनाऽभावाचेत् ;न प्रतिपन्नतत्त्वानां भावनाप्रवृत्तमनसां सर्वेषां समाना भावनैव कुतो न स्यात् ? प्रतिवन्धककर्मसद्भावाञ्चेत् तर्हि भावनाप्रतिबन्धककर्मापाये भावनावत् योगिज्ञानप्रतिबन्धककर्मापाये तज्ज्ञानोत्पत्तिर-१० भ्युपगन्तव्या । इति सिद्धं साकल्येनावरणापाये एवातीन्द्रियमशेषार्थविषयं विशदं प्रत्यक्षम् । . ननु चाशेषार्थज्ञातुस्त(ज्ञानस्यतज्ज्ञानवतः कस्यचित्पुरुषविशेषस्यैवासम्भवात्कथं तज्ज्ञानसम्भवः ? तथाहि-न कश्चित्पुरुषविशेषः सर्वज्ञोस्ति सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वा-१५ द्वन्ध्यास्तनन्धयवत् । न चायमसिद्धो हेतुः, तथाहि-सकलपदार्थवेदी पुरुषविशेषः प्रत्यक्षेण प्रतीयते, अनुमानादिप्रमाणेन वा? न तावत्प्रत्यक्षेण प्रतिनियतासन्नरूपादिविषयत्वेन अन्य॑सन्तानस्थसंवेदनमात्रेप्यस्य सामर्थ्य नास्ति, किमंग पुनरनाद्यनन्तातीतानागतवर्त्तमानसूक्ष्मादिस्वभावसकलपदार्थसाक्षात्कारि- २० संवेदनविशेषे तयासिते पुरुषविशेषे वा तत्स्यात् ? न चातीतादिखभावनिखिलपदार्थग्रहणमन्तरेण प्रत्यक्षेण तत्साक्षात्करणप्रवृत्तज्ञानग्रहणम् , ग्राह्याग्रहणे तनिष्ठग्राहकत्वस्याप्यग्रहणात्।
नाप्यनुमानेनीसौ प्रतीयते; तद्धि निश्चितस्वसाध्यप्रतिबन्धाद्धेतोरुदयमासादयत्प्रमाणतां प्रतिपद्यते । प्रतिबन्धश्चाखिलपदार्थ-२५ नसत्त्वेन स्वसाध्येन हेतोः किं प्रत्यक्षेण गृह्येत, अनुमानेन वा? न तावत्प्रत्यक्षेण, अस्याऽत्यक्षज्ञानवत्सत्त्वसाक्षात्करणाक्षमत्वेन तत्प्रतिपत्तिनिमित्तहेतुप्रतिबन्धग्रहणेप्यक्षमत्वात् । न ह्यप्रतिपनसम्बन्धिनस्तद्गतसम्बन्धावगमो युक्तोऽतिप्रसङ्गात् । नाप्य
. १ मुख्यप्रत्यक्षस्य । २ द्विचन्द्रादिशानस्यापि योगिशानजनकत्वप्रसङ्गात् । ३ अशेषविषय। ४ सर्वश। ५ परेण त्वया। ६ मुख्यम् । ७ मीमांसकः। ८ अन्यस्य पुरुषान्तरस्य । ९ महो। १० तत्सहिते । ११ कश्चित्पुरुषः सकलपदार्थसाक्षात्कारी तद्ब्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वादित्यनेन । १२ परमाणोरप्रतिपत्ताबपि घटस्य परमाणुना सम्बन्धप्रतिपत्तिप्रसङ्गात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org