________________
२४८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नुमानेन; अनवस्थेतरेतराश्रयदोषानुषङ्गात् । न चात्र धर्मी प्रत्यक्षेण प्रतिपन्नः; अनक्षज्ञानवत्यत्यक्षेऽध्यक्षस्याप्रवृत्तेः । प्रवृत्ती वाध्यक्षेणैवास्य प्रतिपन्नत्वान्न किञ्चिदनुमानेन । नाप्यनुमानेन हेतोः पक्षधर्मतावगममन्तरेणानुमानस्यैवाप्रवृत्तेः। न चाप्रतिपन्ने ५धर्मिणि हेतोस्तत्सम्बन्धावगमः । नाप्यप्रतिपन्नपक्षधर्मत्वो हेतुः प्रतिनियतसाध्यप्रतिपत्त्यङ्गम् । किञ्च, सत्तासाधने सर्वो हेतुरसिद्धविरुद्धानेकान्तिकत्वलक्षणां यीं दोषजाति नातिवर्तते । तथाहि-सर्वज्ञसत्त्वे साध्ये भावधर्मों हेतुः, अभावधर्मो वा स्यात् , उत उभयधर्मो वा? प्रथमपक्षेऽसिद्धः १० भावेऽसिद्धे तद्धर्मस्य सिद्धिविरोधात् । द्वितीयपक्षे तु विरुद्धः;
भावे साध्येऽभावधर्मस्याभावाव्यभिचारित्वेन विरुद्धत्वात् । उभयधर्मोप्यनैकान्तिकः संत्तासाधने, तदुभयव्यभिचारित्वात् । - अपि चाविशेषेण सर्वशः कश्चित्साध्येते, विशेषेण वा?
तत्राद्यपक्षे विशेषतोऽहत्प्रणीतागमाश्रयणमनुपपन्नम् । द्वितीय१५ पक्षे तु हेतोरपरसर्वज्ञस्याभावेन दृष्टान्तानुवृत्त्यसम्भवादसाधारणानैकान्तिकत्वम्।
किञ्च, यतो हेतोः प्रतिनियतोऽर्हन् सर्वशः साध्यते ततो बुद्धोपि साध्यतां विशेषाभावात्, न चात्र सर्वशत्वसाधने ... हेतुरस्ति । २० यदप्युच्यते-सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्पावकादिवत् ; तदप्युक्तिमात्रम् ; यतोऽत्रैकज्ञानप्रत्यक्षत्वं सूक्ष्माद्यर्थानां साध्यत्वेनाभिप्रेतम्, प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वं वा? तत्राद्यकल्पनायां विरुद्धो हेतुः, प्रतिनियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन व्याप्तस्यान्यादिदृष्टान्तधर्मिणि प्रमेय. २५ त्वस्योपलम्भात् साध्यविकलता च दृष्टान्तस्य । द्वितीयकल्पनायां सिद्धसाध्यता अनेकप्रत्यक्षैरनुमानादिभिश्च तत्परिज्ञानाभ्युपगमात्।
-- १ निश्चिताविनाभावपूर्वकत्वादनुमानस्य । २ साध्यसाधकानुमाने। ३ परोक्षे । ४ धीं प्रतिपन्नः । ५ सर्वशलक्षणे। ६ सर्वशस्य । ७ त्रयोऽवयवा यस्याः । ८ भावस्वरूपः। ९ सर्वशसत्वे । १० सर्वशस्य । ११ भावाभावोभय । १२ जनैः । १३ दृष्टान्तप्रवर्तनाभावात् । १४ विपक्षसपक्षाभ्यां व्यावतमानो हेतुरसाधारणानका; न्तिकः । अस्योदाहरणमनित्यः शब्दः श्रावणत्वादिति । १५ हेतोः । १६ जगति । १७ अनुमाने। १८ सूक्ष्मान्तरितदूरार्थ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org