________________
२४६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० यद्धान्यतिशयस्तस्यात्यन्तातिशयेऽन्यस्यात्यन्तहानिः यथाग्नेरत्यन्तातिशये शीतस्य, अस्ति च सम्यग्दर्शनादेरत्यन्तातिशयः क्वचि. दात्मनि' इति । यद्वा, आवरणहानिः क्वचित्पुरुषविशेषे परमप्रक
प्राप्ता प्रकृष्यमाणत्वात् परिमाणवत् । न चात्रासिद्धं साधनम् ; ५तथाहि-प्रकृष्यमाणावरणहानिः आवरणहानित्वात् माणिक्याद्या. वरणहानिवत्। तद्धानिपरमप्रकर्षे च ज्ञानस्य परमः प्रकर्षः सिद्धः। यद्धि प्रकाशात्मकं तत्वावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टम् यथा नयनप्रदीपादि, प्रकाशात्मकं च ज्ञानमिति । तदेवमावरणप्रसिद्धिवत्तदभावोप्यनवेयवेन प्रमाणतः प्रसिद्धः । तत्प्रभवमेव १० चाशेषार्थगोचरं ज्ञानमभ्युपगन्तव्यम्, लेशतोप्यावरणसद्भावे
तस्याशेषार्थगोचरत्वासम्भवात्, यत्रैवावरणसद्भावस्तत्रैवास्य प्रतिबन्धसम्भवात् ।
आगमद्वारेणाशेषार्थगोचरं ज्ञानम् । इत्यप्यसुन्दरम् ; विशदशानस्य प्रस्तुतत्वात् । न चागमज्ञानं विशदम् । न चागमोप्यशेषार्थ१५ गोचरः; अर्थपर्यायेषु तस्याप्रवृत्तेः । ते चार्थस्य प्रतिक्षणम् 'अर्थक्रियाकारित्वात्सत्वाद्वा सन्ति' इत्यवसीयन्ते । अन्यथास्याऽवस्तुत्वप्रसंङ्गः। करणजन्यत्वे चाशेषज्ञानस्यातीन्द्रियार्थेषु प्रति- . बन्धः प्रसिद्ध एव, इन्द्रियाणां रूपादिमत्यव्यवहितेऽनेकावयव.
प्रचयात्मकेऽर्थे प्रवृत्तिप्रतीतेः । २० ननु योगजधर्मानुगृहीतानामिन्द्रियाणां गगनाद्यशेषातीन्द्रियार्थसाक्षात्कारिज्ञानजनकत्वसम्भवात् कथं तत्राशेषज्ञानस्येन्द्रियजत्वेपि प्रतिबन्धसम्भवः; इत्यप्यसमीक्षिताभिधानम्, योगजधर्मानुग्रहस्येन्द्रियाणां प्रथमपरिच्छेदे प्रतिविहितत्वात् ।
भावनाप्रकर्षपर्यन्तजत्वाद्योगिविज्ञानस्य नोक्तदोषानुषङ्गः । २५भावना हि द्विविधा-श्रुतमयी, चिन्तामयी च । तत्र श्रुतमयी
श्रृंयमाणेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानज्ञानेन श्रुतशब्दवाच्यतामास्कन्देता निवृत्ता परमप्रकर्ष प्रतिपद्यमाना स्वार्थानुमानज्ञानलक्षणया चिन्तया निवृत्तां चिन्तामयीं भावनामारंभैते। सा च प्रकृष्यमाणा परं प्रकर्षपर्यन्तं सम्प्राप्ता योगिप्रत्यक्षं जन. १ कर्मणः । २ साकल्येन। ३ आवरणाभावप्रभवम् । ४ परेण । ५ अ । ६ प्रकृतत्वात् । ७ अर्थपर्यायाः। ८ अर्थोऽवस्तु असत्वात् । असन्नोऽर्थक्रियाशून्यत्वात् । अर्थक्रियाशून्योर्थः-अर्थपर्यायरहितत्वात् खपुष्पवत् । ९ सौगतो वक्ति । १० भाचार्यात् । ११ सर्व क्षणिकं सत्त्वादिति । १२ प्रामवता। १३ श्रुतमयी भावना की। , ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org