________________
सू० २।१२] संवरनिर्जरयोः सिद्धिः
२४५ यन्ते विपाकान्तत्वात् , यानि तु न निर्जीयन्ते न तानि विपाकान्तानि यथा कोलादीनि, विपाकान्तानि च कर्माणि, तस्मात्साकल्येन क्वचिन्निर्जीर्यन्ते । न चेदमसिद्धं साधनम् ; तथाहि-विपाकान्तानि कर्माणि फलावसानत्वाद्रीह्यादिवत् । न चेमप्यसिद्धम् । तेषां नित्यत्वानुषङ्गात् । न च नित्यानि कर्माणि नित्यं तत्फलानु-५ भवनप्रसङ्गात् । . भावि पुनः कर्म संवरान्निरुध्येत-"अपूर्वकर्मणामानवनिरोधः संवरः" [तत्त्वार्थसू० ९।१] इत्यभिधानात् । आस्रवो हि मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पञ्चविधः, तस्मिन्सति कर्मणामास्रवणात् । स च संवरो गुप्तिसमितिधर्मानुप्रेक्षा-१० परीषहज़यचारित्रैर्विधीयते इत्यागमे विस्तरतः प्ररूपितं द्रष्टव्यम्। निर्जरासंवरयोश्च सम्यग्दर्शनाद्यात्मकत्वात्तत्प्रेकर्षे कर्मणां सन्तानरूपतयाऽनादित्वेपि प्रक्षयः प्रसिध्यत्येव । न ह्यनादिसन्ततिरपि शीतस्पर्टी विपक्षस्योष्णस्पर्शस्य प्रकर्षे निर्मूलतलं प्रलयमुपव्रजन्नोपलब्धः, कार्यकारणरूपतया बीजाङ्करसन्तानो १५ वाऽनादिः प्रतिपक्षभूतदहनेन निर्दग्धबीजो निर्दग्धाङ्कुरो वा न प्रतीयते इति वक्तुं शक्यम् । . ननु तत्प्रकर्षमात्रात्कर्मप्रक्षयमात्रमेव सिध्येन्न पुनः साकल्येन तत्प्रक्षयः, सम्यग्दर्शनादेः परमप्रकर्षसम्भवाभावात्; इत्यप्यसङ्गतम्, तत्प्रकर्षस्य क्वचिदात्मनि प्रसिद्धः । तथाहि-यस्य २० तारतभ्यप्रकर्षस्तस्य क्वचित्परमप्रकर्षः यथोष्णस्पर्शस्य, तारतम्यप्रकर्षश्चासंयतसम्यग्दृश्यादौ सम्यग्दर्शनादेरिति । न च दुःखप्रकर्षेण व्यभिचारः; सप्तमनरकभूमौ नारकाणां तत्परमप्रकर्षप्रसिद्धेः सर्वार्थसिद्धौ देवानां सांसारिकसुखपरमप्रकर्षवत्, मिथ्यादृष्टिष्वनन्तानुवन्धिक्रोधादिपरमप्रकर्षवद्वा । नापि ज्ञानहा-२५ निप्रकर्षणानेकान्तः; तस्यापि क्षायोपशमिकस्य हीयमानतया प्रकृष्यमाणस्य केवलिनि परमापकर्षप्रसिद्धः । क्षायिकस्य तु हानेवासम्भवात्कुतस्तत्कर्षो यतोऽनेकान्तः। ' इत्थं वा साकल्येन कर्मप्रक्षये प्रयोगः कर्तव्यः-'यस्यातिशये
१ फलदानपरिणतिर्विपाकः । २ परमतापेक्षया । ३ सम्यग्दर्शनादेः कर्मविनाशहेतुत्वमुक्तमिदानीमन्यदेवोक्तमिति कथं न पूर्वापरविरोधः? इत्युक्ते आह । ४ सति । ५. सम्यग्दर्शनादि कचिदात्मनि परमप्रकर्ष प्राप्नोति तारतम्यप्रकर्षवत्त्वादित्युपरिष्टादध्याहियते । ६. केवलशानस्य । ७ तारतम्यप्रकर्षः । ८ विपाकान्तत्वादित्यनुमानाघेक्षया वाशब्दोऽत्र : कचित्कर्मणामत्यन्तहान्यतिशयो धर्मी सम्यग्दर्शनादेरत्यन्तातिशये भवति तस्यातिशये तद्धान्यतिशयदर्शनादित्युपरिष्टादध्याहियते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org