________________
२४४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तेषां जीवपरिणामानां पारतभ्यस्वभावत्वात्, क्रोधादिपरिणामो हि जीवस्य पारतन्यं न पुनः पारतव्यनिमित्तम् । _ सत्यम् ; नात्मगुणोऽदृष्टं प्रधानपरिणामत्वात्तस्य "प्रधानपरि
णामः शुक्लं कृष्णं च कर्म" [ ] इत्यभिधानात् ; इत्यपि मनो५रथमात्रम् ; प्रधानस्यासत्वेन तत्परिणामत्वस्य कचिदप्यसम्भवात् । तदसत्त्वं चात्रैवानन्तरं वक्ष्यामः । तत्परिणामत्वेपि वा तस्यात्मपारतन्यनिमित्तत्वाभावे कर्मत्वायोगात्, अन्यथातिप्रसङ्गः । प्रधानपारतव्यनिमित्तत्वात्तस्य कर्मत्वमिति चेन्न;
प्रधानस्य तेन बन्धोपगमे मोक्षोपगमे चात्मकल्पनावैयर्थ्यप्रस. १० ङ्गात् । बन्धमोक्षफलानुभवनस्यात्मनि प्रतिष्ठानान्न तत्कल्पनावेयर्थ्यमित्यसत्; प्रधानस्य तत्कतत्ववत् तत्फलानुभोक्तृत्वस्यापि प्रमाणसामर्थ्यप्राप्तत्वात् , अन्यथा कंतनाशाकृताभ्यागमदोषानु. षङ्गः। अथात्मनश्चेतनत्वात्तत्फलानुभवनं न तु प्रधानस्याऽचेत
नत्वात् । तदप्ययुक्तम् ; मुक्तात्मनोपि तत्फलानुभवनानुषङ्गात् । १५ तस्य प्रधानसंसर्गाभावान तत्फलानुभवनमिति चेत्, तर्हि
संसारिणः प्रधानसंसर्गाद्वन्धफलानुभवनम् । तथा चात्मन एव बन्धः सिद्धः, तत्संसर्गस्य बन्धफलानुभवनानिमित्तस्य बन्धरूप: त्वात् , बन्धस्यैव 'संसर्गः' इति पुद्गलस्य च 'प्रधानम्' इति नामान्तरकरणात् । २० ननु प्रसिद्धस्यापि यथोक्तंप्रकारस्य कर्मणः कार्यकारणप्रवाहेण प्रवर्त्तमानस्यानादित्वाद्विनाशहेतुभूतसामग्रीविशेषस्य चाभावाकथं तेन विश्लेषिताखिलावरणत्वं ज्ञानस्य; इत्यप्यपेशलम् ; सम्यग्दर्शनादित्रयलक्षणस्य तद्विनाशहेतुभूतसामग्रीविशेषस्य
सुप्रतीतत्वात् । सञ्चितं हि कर्म निर्जरातश्चारित्रविशेषरूपायाः २५प्रलीयते । सा च निर्जरा द्विविधा-उपक्रमेतरभेदात् । तत्रौपक्रमिकी तपसा द्वादशविधेन साध्या । अनुपक्रमा तु यथाकालं संसारिणः स्यात् ।
कुतः पुनः साकल्येन पूर्वोपात्तकर्मणां निर्जरा निश्चीयते इति चेदनुमानात्; तथाहि-साकल्येन क्वचिदात्मनि कर्माणि निर्जी। १ साजयः । २ पुण्यम् । ३ पापम् । ४ बुद्ध्यादौ विकारे। ५ क्यं जैनाः। ६ घटादेरपि कर्मत्वं स्यात् । ७ प्रधानं बन्धफलानुभोक्त भवति बन्धाधिकरणत्वान्निगलबद्धदेवदत्तवत् । ८ तत्कृतत्वेपि तत्फलानुभोक्तत्वं न स्याद्यदि तहिं । ९ कृतस्य कर्मणः प्रधानसम्बन्धित्वेन नाशः। १० अकृतस्य फलस्यात्मनि आगमः । ११ तस्य कर्मणः फलं बन्धमोक्षो। १२ तस्य कर्मणः । १३ पौगलिकस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org