________________
सू० २।१२] कर्मणां पौद्गलिकत्वम्
२४३ नेनु चाविद्यैवावरणं न पौगलिकं कर्म, मूर्त्तनानेनामूर्तस्य ज्ञानादेरावरणायोगात्, अन्यथा शरीरादेरप्याव(वा)रकत्वानुषङ्गात् ; इत्यप्यसमीचीनम् ; मदिरादिना मूर्तेनाप्यमूर्तस्य ज्ञानादेरावरणदर्शनात् । अमूर्तस्य चाव(वा)रकत्वे गगनादेर्शानान्तरस्य च तत्प्रसङ्गः । तदविरुद्धत्वात्तस्य तन्नेति चेत् ; तर्हि शरी-५ रादेरष्यत एव तन्मा भूत्तद्विरुद्धस्यैवावरकत्वप्रसिद्धेः । प्रवाहेण प्रवर्त्तमानस्य शानादेरविद्योदये निरोधात्तस्यास्तद्विरोधगतौ मदिरादिवत्पौद्गलिककर्मणोपि सास्तु विशेाभावात् । तथाहि-आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसम्बन्धनिवन्धनः तत्स्वरूपांन्यथाभावैस्वभावत्वात् उन्मत्तकादिजनितोन्मादादिवत् । न च मिथ्या-१० ज्ञानजनितापरमिथ्याज्ञानेनानेकान्तः; तस्यापरापरपौद्गलिककर्मोदये सत्येव भावात् अपरापरोन्मत्तकादिरससद्भावे तत्कृतोन्मा. दादिसन्तानवत् ।
ननु चात्मगुणत्वात्कर्मणां कथं पौद्गलिकत्वमित्यन्ये; तेप्यपरीक्षकाः; तेषामात्मगुणत्वे तत्पारतन्यनिमित्तत्वविरोधात् सर्व-१५ दात्मनो बन्धानुपपत्तेः सदैव मुक्तिप्रसङ्गात् । न खलु यो यस्य गुणः स तस्य पारतन्यनिमित्तम् यथा पृथिव्यादे रूपादिः, आत्मगुणश्च धर्माधर्मसंशकं कर्म परैरभ्युपगम्यते इति न तदा. त्मनः पारतन्यनिमित्तं स्यात् । न चैवम् , आत्मनः परतन्त्रतया प्रमाणतः प्रतीतेः । तथाहि-परतन्त्रोऽसौ हीनस्थानपरिग्रहवत्त्वात् २० मधोद्रेकपरतन्त्राशुचिस्थानपरिग्रहवद्विशिष्टपुरुषवत् । हीनस्थानं हि शरीरम् , आत्मनो दुःखहेतुत्वात्कारागारवत् । तत्परिग्रहवाँश्च संसारी प्रसिद्ध एव । न च देवशरीरे तद्भावात्पक्षाव्याप्तिः; तस्यापि मरणे दुःखहेतुत्वप्रसिद्धेः । यत्परतन्त्रश्चासौ तत्कर्म इति सिद्धं तस्य पौद्गलिकत्वम् । तथा हि-पौगालिकं कर्म आत्मनः पार-२५ तन्य निमित्तत्वानिगलादिवत् । न च क्रोधादिभिर्व्यभिचारः;
१ पुरुषज्ञानाद्वतवादिनौ वदतः । २ आत्मनः । ३ आदिपदेनात्मनः। ४ अविधास्वरूपस्य । ५ गगनादिकं शानान्तरं च शानादेरावरकं भवति अमूर्त्तत्वादविद्यावत् । ६ तेन शानेन। ७ मिथ्याज्ञानमविद्या। ८ प्रवाहेण प्रवर्त्तमानस्य शानादेः पौद्रलिककमोदये निरोधस्याविशेषात् । ९ कर्मतापन्न । १० सम्यग्ज्ञानादि । ११ मिथ्याशानादि । १२ योगाः। १३ धर्माधर्मसंज्ञकं कर्म आत्मनः पारतव्यनिमित्तं न भवति आत्मगुणत्वादित्यध्याहारः। १४ कर्मणा। १५ शरीरादिलक्षण । १६ भागासिद्धत्वं दुःखहेतुत्वलक्षणस्य हेतोः। १७ सुखदुःखरागद्वेषादिकृतं पारतत्रयम् । १८ निगलं गलबन्धनम् ( शखलादि)।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org