________________
२४२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० द्धमावरणम् । ननु मेर्वादेर्दूरदेशता रावणादेस्तत्कालता परमाग्वादेः सूक्ष्मस्वभावता मूलकीलोदकादेश्च भूम्यादिः आवरणं प्रसिद्धमेवेति चेत्तसारम् । तदभावस्य कर्तुमशक्यत्वात् । न खलु सातिशयर्द्धिमतापि योगिना देशाद्यभावो विधातुं शक्यः। ५न चान्यत् किञ्चिदावरणं प्रतीयते । ततः सामग्रीविशेषविश्लेषिताखिलावरणमित्ययुक्तम् । । अत्रोच्यते-न शरीराद्यावरणम् । किं तर्हि ? तयतिरिक्तं कर्म । तच्चानुमानतः प्रसिद्धम् । तथाहि-स्वपरप्रमेयबोधैकखभावस्यात्मनो ही गर्भस्थानशरीरविषयेषु विशिष्टाऽभिरतिः आत्मतय१०तिरिक्तकारणपूर्विका तत्त्वात् कुत्सितपरपुरुषे कमनीयकुलकामिन्यास्तत्राद्युपयोगजनितविशिष्टाभिरतिवत् । तथा, भवभृतां मोहोदयः शरीरादिव्यतिरिक्तसम्बन्ध्यन्तरपूर्वको मोहोदयत्वात् मदिराघुपयोगमत्तस्यात्मगृहादौ मोहोदयवत्।
ननु चातः कर्ममात्रमेव प्रसिद्धं नावरणम् । ततस्तत्सिद्धावेव १५ प्रमाणमुच्यतां तत्रैव विवादादिति चेदुच्यते यज्ज्ञानं स्वविषयेऽप्रवृत्तिमत् तत्सावरणम् यथा कामलिनो लोचनविज्ञानमेकचन्द्रमसि, स्वविषये अशेषार्थलक्षणेऽप्रवृत्तिमञ्च ज्ञानमिति।। । ननु विज्ञानस्याशेषविषयत्वं कुतः सिद्धम् ? आवरणापाये तत्म
काशकत्वाञ्चदन्योन्याश्रयः-सिद्धे हि सकलविषयत्वे तस्य आव. २० रणापाये तत्प्रकाशनं सिध्यति, अतश्च सकलविषयत्वमिति तदप्यसमीक्षिताभिधानम् ; यतोनुमानमिच्छता भवताप्यवश्यं सकलावरणवैकल्यात्प्रागेव सकलस्य प्राणिमात्रस्याशेषविषयं व्याप्त्या. दिज्ञानमभ्युपगतमेव । तथा, यत्स्वविषयेऽस्पष्टं ज्ञानं तत्सावर
णम् यथा रजोनीहाराद्यन्तरिततरुनिकरादिज्ञानम्, अस्पष्टं च २५ 'सर्व सदनेकान्तात्मकम्' इत्यादि व्यातिज्ञानम् । मिथ्यादृशां
सर्वत्रानेकान्तात्मके भावे विपरीतज्ञानं सावरणं मिथ्याज्ञानत्वात् - धत्तूरकाद्युपयोगिनो मृच्छकले काञ्चनज्ञानवदिति । अतः सिद्ध. मावरणं पौद्गलिकं कर्मेति ।
१ शानस्य । २ मीमांसकीयपूर्वपक्षे सति जैनः। ३ हीनशब्दो गर्भादिशब्दैः प्रत्येकमभिसम्बन्धनीयः । ४ विषयस्रग्वनिताचन्दनादिषु। ५ विशिष्टाभिरतित्वात् । ६ आदिपदेनौषधमत्रादि । ७ अनुभव । ८ उक्तानुमानद्वयात् । ९ संसारिज्ञानमशेषार्थलक्षणे स्वविषये सावरणं भवति तत्राप्रवृत्तिमत्वादिति प्रतिशाहेतू उपरिष्टान्नेयौ। १० सावरणम् । ११ अभावात् । १२ आदिपदेनागमजम् । १३ अस्पष्टशानत्वादित्युच्यमाने स्वस्मिन्नस्पष्टत्वं स्यात्तब्यवच्छेदार्थ स्वविषये इत्युक्तम् । १४ एकान्तरूपं विपरीतम् । १५ अनुमानत्रयात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org