________________
सु० २।७] आलोककारणतावादः विषयमपरिच्छिन्दत् ज्ञानम् 'अस्ति' इति युक्तम् , अन्यथा सर्वत्र सर्वदा सर्वस्य तदनिवार्य भवेदित्यप्यसारम् । तेत्रोपनीतस्य नीलादेस्तेनैव ग्रहणोपलम्भात्। तदैव तदन्यज्ञात(न)मिति चेकि. मिदानी प्रतिविषयं प्रकाशकस्य भेदः ? तथाभ्युपगमे प्रदीपादेरपि प्रतिविषयमन्यत्वप्रसङ्गः । प्रत्यभिज्ञानमुभयत्र समानम् । ५
नन्वर्थाभावेपि ज्ञानसद्भावेऽतीतानागते व्यवहिते च तत्स्यात्सन्निहितवत् । नतु (ननु) तत्र तत्स्यादिति कोर्थः? किं तत्रोत्पघेत, तद्राहकं वा भवेदिति ? न तावत्तत्रोत्पद्येत; आत्मनि तदुत्पत्त्यभ्युपगमात् । नापि तदाहकं भवेत् । अयोग्यत्वात् । न खलु तदुत्पन्नमपि सर्व वेत्ति; योग्यस्यैव वेदनात् । कारणेपि चैतच्चोधे १० समानम् । तत्रापि हि कारणं कार्येणानुपक्रियमाणं यावत्प्रतिनियतं कार्यमुत्पादयति तावत्सर्व करमानोत्पादयतीति चोये योग्यतैव शरणम् । ततो ज्ञानस्यार्थान्वयव्यतिरेकानुविधानाभावात्कथं तत्कार्यता यतः "अर्थवत्प्रमाणम्" [न्यायमा० पृ० १] इत्यत्र भाष्ये "प्रमातृप्रमेयाभ्यामर्थान्तरमव्यपदेश्याऽव्यभिचारिव्यव-१५ सायात्मके ज्ञाने कर्तव्येऽर्थसहकारितयार्थवत्प्रमाणम्" [ ] इति व्याख्या शोभेत ? तन्नार्थकार्यता विज्ञानस्य ।
नाण्यालोककार्यता; अञ्जनादिसंस्कृतचक्षुषां नक्तश्चराणां चालोकाभावेपि ज्ञानोत्पत्तिप्रतीतेः । अथालोकस्याकारणत्वेऽन्धकारावस्थायामप्यस्मदादीनां ज्ञानोत्पत्तिः स्यात् । न चैवम् । तत-२० स्तद्भावे भावात्तदभावे चाभावात्तत्कार्यताऽस्य । अन्यथा धूमो
१ अर्थे । २ पुरोदेशे। ३ पूर्वज्ञानेनैव । ४ अन्यज्जानामीत्यस्मिन्नवसरे । ५ ज्ञानस्य । ६ य एवायं प्रदीपो घटस्य प्रकाशकः स एवायं पटस्य प्रकाशको यथा तथा य एव नीलशानपरिणत आत्मा स एवान्यज्ञानपरिणतः। ७ कारणचोधपक्षेपि । ८ कुलालादिलक्षणम् । ९ घटादि लक्षणेन । १० प्रमाणं भवति । कीदृशम् ? अर्थक्दों विद्यते यस्य तत् । अर्थवत्प्रमाणमित्युक्ते ज्ञानमपि प्रमाणं स्यात्तत्परिहारार्थमर्थसहकारितयेति । न च शानमधंसहकारितयाऽर्थवत् किन्तु अर्थविषयतयाऽऽस्मवत् अर्थसहकारितयाऽर्थवत्प्रमाणमित्युच्यमाने मनोपि प्रमाणं स्यात् । कथम् ? सुखोत्पत्ती सम्वनितादिसहकारितयाऽर्थवद्भवति मनः । इति तद्वयवच्छेदार्थमव्यपदेश्यादि विशेषणविशिष्टे ज्ञाने कर्तव्ये इत्युक्तम् । एवं चेत्प्रमाता प्रमेयं च प्रमाणं स्यात् । कथम् ? प्रागुक्तविशेषणे शाने कर्तव्ये स्तम्भाद्यर्थसहकारितया अर्थवान्प्रमाता भवति । इति प्रागुक्तविशेषणे ज्ञाने कर्तव्ये खण्डमुण्डादिन्यक्तिलक्षणार्थसहकारितया अर्थवदिति प्रमेयं गोत्वादि सामान्यरूपम् । इति तत्परिहारार्थ प्रमातृप्रमेयाभ्यामर्थान्तरमित्युक्तम् । ११ अन्वयव्यतिरेकसद्भावेपि आलोकशानयोः कार्यकारणभावो नास्ति यदि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org