________________
२३६
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० नसम्भवात् । सत्त्वेन सर्वस्य सर्वेण वेदनमैन्यैस्तु धर्मेरवेदनमिति चेत्, तर्हि ["Q] कस्यार्थस्वभावस्य" [प्रमाणवा० १।४४] इत्यादिग्रन्थविरोधः । सत्वेनापि तद्ग्रहणे न सादृश्यं ग्रहण कारणमिति कथं सुगतस्योपचारेणापि बहिः प्रमेयग्रहणम् ? . ५ कथं चैवंवादिनोभावस्योत्पद्यमानता प्रतीयेत-सा झुत्पद्यमाना. र्थसमसमयभाविना ज्ञानेन प्रतीयते, पूर्वकालभाविना, उत्तरकालभाविना वा? न तावत्समसमयभाविना; तस्याऽतत्कार्यत्वात् । नापि पूर्वकालभाविना तत्काले तस्याः सत्त्वाभावात् । न चासती
प्रत्येतुं शक्या, अकारणत्वात् । तदा खलूत्पत्स्यमानतार्थस्य न १० तूत्पद्यमानता । नाप्युत्तरकालभाविना; तदा विनष्टत्वात्तस्याः। न हि तदोत्पद्यमानतार्थस्य किं तूत्पन्नता।
नित्येश्वरज्ञानपक्षे सिद्धमकारणस्याप्यर्थस्यानेन परिच्छेद्यत्वम् । तद्वदन्येनापि स्यात् । अथार्थाकार्यत्वे तद्वन्नित्यत्वान्निखिलार्थ
ग्राहित्वानुषङ्गः, न; चक्षुरादिकार्यत्वेनानित्यत्वात् । प्रतिनियत. १५शक्तित्वाच्च प्रतिनियतार्थग्राहित्वम् । न खलु यैकंस्य शक्तिः
सान्यस्यापि, अन्यथा सर्वस्य सर्वकर्तृत्वानुषङ्गो महेश्वरवत् । यथैव हीश्वरः कार्यामेणानुपक्रियमाणोप्यविशेषेण तं करोति तथा कुम्भकारादिरपि कुर्यात् । न हि सोपि तेनोपक्रियते येन 'उपकारकमेव कुर्यान्नान्यम्' इति नियमः स्यात् । शक्तिप्रतिनि२० यमात्तदविशेषेपि कश्चित्कस्यचित्कर्त्तत्यभ्युपगमो ग्राहकत्वपक्षेपि समानः।
ननु यद्यर्थाभावेपि ज्ञानोत्पत्तिः कुतो न नीलाद्यर्थरहिते प्रदेशे तद्भवति? भवत्येव नयनमनसोः प्रणिधाने । कथं न नीलाद्यर्थन. हणम् ? तंत्र तदभावात् । कथं 'तदुत्पन्नम्' इत्यवगमः? न हि
१ पुरुषेण। २ नीलपीतादिलक्षणैः । ३ नीललक्षणस्यार्थस्य प्रत्यक्षतः प्रतीते: कोन्यो भावो यः प्रमाणान्तरैवेद्यते इति ग्रन्थस्य विरोधः । ४ प्रतिबिम्बितस्य सादृश्यस्य ग्रहणं स्यान्न त्वर्थस्य । ५ कारणमेव परिच्छेद्यमिति वादिनः। ६ असदादिशानेन । ७ अस्मदादिशानस्य । न-इति चेन्नेत्यर्थः। ८ अस्मदादिशानस्य । ९ ईश्वरज्ञानस्य । १० असदादिज्ञानस्य। ११ एकस्य या शक्तिः सान्यस्य यदि। १२ नरस्य । १३ सर्वकार्याणाम् । १४ ग्रामः समूहः । १५ अनुपकारककार्यकारणत्वस्याविशेषेपि । १६ घटपटादिषु मध्ये । १७ अर्थकार्यताऽभावेपि ज्ञानं कस्यचिद्योग्यस्य ग्राहक स्यादिति समानता। १८ पुरोदेशे ।
1 'एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न भागो दृष्टः स्याघः प्रमाणैः परीक्ष्यते ॥" [प्रमाणवा० ११४४]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org