________________
२३५
पाचशपामावादा
सू० २।७] अर्थकारणतावादः
ननु भ्रान्तं तत्तेनापलभ्यते, न चान्यस्य व्यभिचारेन्यस्य व्यभिचारोऽतिप्रसङ्गात् इत्यप्यसमीक्षिताभिधानम् ; स्वपरग्रहणलक्षणं हि ज्ञानम्, तत्र च यथा सत्याभिमतज्ञानं खपरग्राहकं तथा केशोण्डुकादिज्ञानमपि । एतावास्तु विशेषः-किश्चित्सत्परं गृह्णाति संवादसद्भावात्किञ्चिदसद्विसंवादात्, न चैतावता जात्यन्तर-५ त्वेनानयोरन्यत्वं ताभ्यां व्यभिचाराभावो वा । अन्यथा 'प्रयत्नानन्तरीयकः शब्दः कृतकत्वाद् घटादिवत्' इत्यादेरप्यप्रयत्नानन्तरीयकैर्विद्युद्वनकुसुमादिभिर्न व्यभिचारः, ताल्वादिदण्डादिजनिताच्छन्दद्घटादेस्तद्विपरीतस्य विद्युदारेन्यत्वात् । न चान्यस्य व्यभिचारेऽन्यस्यापि व्यभिचारोऽतिप्रसङ्गात् । तथाप्यत्र व्यभि-१० चारे प्रकृतेपि सोऽस्तु विशे(भावात् ।
किञ्च, 'कारणमेव परिच्छेद्यम्' इत्यभ्युपगमे योगिज्ञानात्माकालभाविन एवार्थस्यानेन परिच्छित्तिः स्यात् तस्यैव तत्कारणत्वात्; न पुनस्तत्कालभाविनोऽभौविनो वा, तस्यातत्कारणत्वात् । लब्धात्मलाभं हि किंचित्कस्यचित्कारणं नान्यथातिप्रस-१५ ङ्गात् । तथाप्यनेन तत्परिच्छेदेऽन्यज्ञानेनाप्यतत्कारणस्याप्यर्थस्य परिच्छेदः स्यात् । तथा चेदमयुक्तम्-"अर्थसहकारितयार्थवत्प्रमाणम्" [ ] इति । तदपरिच्छेदे चास्यासर्वज्ञतानुषङ्गः । ज्ञानान्तरेण परिच्छेदे तस्यापि ज्ञानान्तरस्य समसमयभाविनोर्थस्यापरिच्छेदकत्वात्कथं सर्वज्ञतेति चिन्त्यम् ।
क्षणिकत्वे चार्थस्य ज्ञानकालेऽसत्त्वात्कथं तेन ग्रहणम् ? तदाकारता चास्य प्रोक्प्रत्युक्ता । सत्यां वा तस्या एव ग्रहणात्परमार्थतोर्थस्याग्रहणात्तदेवाऽसर्वज्ञत्वम् । न खलु चैत्रसदृशे मैत्रे दृष्टे परमार्थतश्चैत्रो दृष्टो भवत्यन्यत्रोपचारात् । साध्वी चोपचारेण सर्वज्ञत्वकल्पना सुगतस्य सर्वस्य तथाप्राप्तेः,२५ एकस्य कस्यचित्सतो वेदने तत्सदृशस्य सत्त्वेन सर्वस्य वेद
१ कारणेन । २ गोपालघटिकाधूमस्य पावकव्यभिचारे भूधरादिधूमस्यापि तद्वयभिचारः स्यात् । ३ भ्रान्ताभ्रान्तज्ञानयोः। ४ संशयविपर्ययाभ्याम् । ५ ज्ञानस्यार्थाभावे भावो व्यभिचारस्तस्याभावो न च । ६ एतावतान्यत्वं व्यभिचाराभावो वा स्याद्यदि तहिं । ७ अपेक्षितपरव्यापारो हि भावः कृतक उच्यते। ८ ताल्वाधजनितस्य, मेघादिकारणकस्य । ९ भिन्नजातीयत्वात् । १० प्रयत्नानन्तरीयकत्वं विना भावे । ११ अन्यत्वेपि। १२ कृतकत्वादित्यस्य हेतोः। १३ शाने । १४ अन्यत्वस्य । १५ ईश्वरज्ञानाद्वा। १६ भविष्यतीर्थस्य । १७ खरविषाणमपि कस्यचित्कारणं स्यादित्यतिप्रसङ्गः। १८ वर्तमानस्य भाविनो वार्थस्य शानाकारणत्वेपि । १९ योगिनः । २० भाविनोर्थस्य । २१ प्रथमपरिच्छेदे । २२ प्राणिमात्रस्य । २३ सन्निहितस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org