________________
२३८
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
प्यग्निजन्यो न स्यात्, तद्व्यतिरेकेणान्यस्य तद्व्यवस्थापकस्याभावादिति चेत्, किं पुनरन्धकारावस्थायां ज्ञानं नास्ति ? तथा चेत्; कथमन्धकारप्रतीतिः ? तदन्तरेणापि प्रतीता वन्यत्रापि ज्ञानकल्पनानर्थक्यम् । 'प्रतीयते, ज्ञानं नास्ति' इति च स्ववचनविरोधः, ५ प्रतीतेरेव ज्ञानत्वात् ।
अथान्धकाराख्यो विषय एव नास्ति यो ज्ञानेन परिच्छिद्येत, अन्धकारव्यवहारस्तु लोके ज्ञानानुत्पत्तिमात्र इत्युच्यते यद्येवमालोकस्याप्यभावः स्याद्विशदज्ञानव्यतिरेकेणान्यस्यास्याप्यप्रतीतेः । तद्व्यवहारस्तु लोके विशदज्ञानोत्पत्तिमात्रः । ननु ज्ञानस्य १० वैशद्यमेव तदभावे कथम् ? इत्यप्यज्ञचोद्यम्; नक्तञ्चरादीनां रूपेऽस्मदादीनां रसादौ च तदभावेपि तस्य वैशद्योपलब्धेः ।
आलोक विषयस्य च ज्ञानस्यातं एवालोकाद्वैशद्यम्, तदन्तराद्वा, अन्यतो वा कुतश्चित् ? यद्यन्यतः; न तर्ह्यलोककृतं वैशद्यम् । न हि यद्यदभावेपि भवति तत्तत्कृतमतिप्रसङ्गात् । अथालोकान्तरात्; १५ तद्विषयस्यापि तस्यालोकान्तरात्तदित्यनवस्था । न चालोकान्तरमस्ति । अथास्मदेवालोकात् स्वविषयादेव तर्हि वैशद्यम्, तथा घटादिरूपादप्यस्तु । तस्याभासुरत्वान्नातस्तत्; इत्यप्ययुक्तम् ; ब. हलान्धकारनिशीथिन्यां नक्तञ्चरादीनां तत्र वैशद्याभावप्रसङ्गात् । 'विशदं प्रत्यक्षम् ' इत्यत्र चोक्तं वैशद्यकारणम् । यद्येवं प्रदीपाद्यु२० पादानमनर्थकं तदन्तरेणापि ज्ञानोत्पत्तिप्रसङ्गात् ; नाऽनर्थकम्, आवरणापनयनद्वारेण विषये ग्राह्यतालक्षणस्य विशेषस्य इन्द्रियमनसोर्वा तज्ज्ञानजनकलक्षणस्यातोऽञ्जनादेरिवोत्पत्तेः । न चैताँवता तस्य तत्कारणताः काण्डपटाद्यावरणापनेतुर्हस्तादेरपि तत्वप्रसङ्गात् । ततो यथा ज्ञानानुत्पत्तिव्यतिरेकेण नान्यत्तमः २५ तथा विशदज्ञानोत्पत्तिव्यतिरेकेणा लोकोप्यन्यो न स्यात् ।
ननु 'अत्र प्रदेशे बहल आलोकोऽत्र च मन्दः' इति लोकव्यवहारादन्यैः सोस्तीति चेत् तर्हि 'गुहागह्ररादौ बहलं तमोन्यत्र
१ अन्वयव्यतिरेक व्यतिरेकेण । २ कार्यकारणभावव्यवस्थापकस्य । ३ अन्धकारस्य । ४ घटादिविषये । ५ अर्थः । ६ परेण भवता । ७ ज्ञानानुत्पत्तिमात्रान्धकारप्रकारेण । ८ प्रकृतज्ञानविषयात् । ९ खराभावेपि जायमानो धूमः खर हेतुकोन्यथा स्यात् । १० वैशद्यम् । ११ प्रथमालोकादेव । १२ विज्ञानस्य । १३ घटादिज्ञानवैशद्यम्, ततश्च किमालोक परिकल्पनेन । १४ आवरणप्रक्षयः । १५ तमः । १६ सप्तमीद्विः । १७ प्रदीपादिना मनोलोचनस्यार्थस्य च स्वविशेषजननेपि । १८ वैशद्यकारणत्व । १९ जैनम । २० विशदज्ञानोत्पत्तेः सकाशात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org