________________
२१८
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
तावत् । तस्याः विषयधर्मत्वे सर्वदा तथा प्रतिभासप्रसङ्गाकुतः प्रतिभासपरावृत्तिः ? न चास्पष्टसंवेदनं निर्विषयमेव, संवादकत्वात् स्पष्ट संवेदनवत् । कचिद्विसंवादात्सर्वत्रास्य विसंवादे स्पष्टसंवेदनेपि तत्प्रसङ्गः । ततो नैतत्साधु५ "बुद्धिरेवातर्दाकारा तत उत्पद्यते यदा । तदाऽस्पष्टप्रतीभासव्यवहारो जगन्मतः ॥”
[ प्रमाणवार्त्तिकालं० प्रथमपरि० ] द्विचन्द्रादिप्रतिभासेपि तद्व्यवहारानुषङ्गाच्च । स्पष्टप्रतिभासेन. बाध्यमानत्वादस्य निर्विषयत्वमन्यत्रापि समानम् । यथैव हि १० दूरादस्पष्टप्रतिभासविषयत्वमर्थस्यात्स्पष्टप्रतिभासेन बाध्यते तथा सन्निहितार्थस्य स्पष्टप्रतिभासविषयत्वं दूरादस्पष्टप्रतिभासेन, अविशेषात् ।
"
ननु विषयिधर्मस्य विषयेषूपचारात्तत्र स्पष्टास्पष्टत्वव्यवहारे विषयिणोपि ज्ञानस्य तद्धर्मतासिद्धिः कुतः ? स्वैज्ञान स्पष्टत्वास्प१५ ष्टत्वाभ्याम् स्वतो वा ? प्रथमपक्षेऽनवस्था । द्वितीयपक्षे स्वविशे'पेणाखिलज्ञानानां तद्धर्मताप्रसङ्गः इत्यप्यसमीचीनम् ; तत्रान्येथैव तद्धर्मताप्रसिद्धेः । स्पष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषाद्धि क्वचिद्विज्ञाने स्पष्टता प्रसिद्धा, अस्पष्टज्ञानावरणादिक्षयोपशम विशेषात्व स्पष्टतेति । प्रसिद्धश्च प्रतिबन्धकापायो ज्ञाने -२० स्पष्टताहेतू रजोनीहाराद्यावृत्ता (ता) र्थ प्रकाशस्येव तद्वियोगः ।
१६
अक्षात्स्पष्टता इत्यन्ये, तेषां दविष्ठेपादपादिज्ञानस्य दिवोलूकादिवेदनस्य च तत्प्रसङ्गः । तदुत्पादकाक्षस्यातिदूरदेशदिनकरकरनिकरोपहतत्वाददोषोयमिति; अत्राप्यक्षस्योपघातः, शक्तेर्वा ?
१ अस्पष्टतया । २ गृहीतार्थाव्यभिचारित्वात् । ३ अस्पष्टसंवेदनं सालम्बनं सिद्धं यतः । ४ शानम् । ५ एवकारोत्र भिन्नप्रक्रमे । तेनातदाकारेत्यस्यानन्तरं द्रष्टव्यः । • बुद्धिर्विषयादुत्पद्यते चेत् तदा अतदाकारा कथमिति चेदुच्यते । एकत्वेन व्यवस्थिता - चन्द्रलक्षणादर्थादुत्पद्यमाना बुद्धिर्यदा द्वित्वमवभासयति एकत्वं नावभासयति तदा अतदाकारा सती अस्पष्टव्यपदेशमर्हति । ६ अविषयाकारा । ७ विषयात् । ८ एतस्य तु स्पष्टत्वमभ्युपगतं बौद्धेन । ९ अतदाकारत्वं यतो बुद्धेः । १० स्पष्टसंवेदनेपि । ११ समीपे । १२ बाधाऽबाधत्वस्योभयत्रापि । १३ स्वयोः स्पष्टास्पष्टशानयोग्रहके च ते ज्ञाने च तयोः स्पष्टत्वास्पष्टत्वाभ्याम् । १४ प्रत्यक्षानुमानानाम् । १५ उक्त विपर्ययेणैव । स्वशानस्य स्पष्टत्वास्पष्टत्वेनैव । १६ वीर्य शक्तिः । शानस्य वीर्यस्य चावरणमवरोधकं कर्म १७ अंशतः क्षयोपशमो भवति न सर्वतः । १८ प्रतिबन्धकोत्रावरणम् । १९ संवेदनस्य विशदत्वम् । २० मीमांसकाः । २१ अतिदूर २२ परिहारे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org