SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सू० २।४] विशदत्वविचारः २१९. प्रथमपक्षोऽयुक्तः, तत्स्वरूपस्याविकलस्यानुभवात् । द्वितीयपक्षे तु योग्यतासिद्धिः; भावेन्द्रियाख्यक्षयोपशमलक्षणयोग्यताव्यतिरेकेणाक्षशक्तेरव्यवस्थितेः । तल्लक्षणाचाक्षात्स्पष्टत्वाभ्युपगमेऽस्मन्मतप्रसिद्धिः। आलोकोप्येतेने तद्धेतुः प्रत्याख्यातः । ततः स्थितमेतद्विश-५. दशानखभावं प्रत्यक्षमिति। ननु किमिदं ज्ञानस्य वैशा नामेत्याह अव्यवधानेनेत्यादि । प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा । प्रतिभासनं वैशद्यम् ॥ ४॥ तुल्यजातीयापेक्षया च व्यवधानमव्यवधानं वा प्रतिपत्तव्यं न १० पुनर्देशकालाद्यपेक्षया । यथा 'उपर्युपरि स्वर्गपटलानि' इय॑त्रान्योन्यं तेषां देशादिव्यवधानेपि तुल्यजातीयानामपेक्षाकृता प्रत्या- . सत्तिः सामीप्यमित्युक्तम्, एवमत्राप्यव्यवधानेन प्रमाणान्तर्रनिरपेक्षतया प्रतिभासनं वस्तुनोऽनुभवो वैशद्यं विज्ञानस्येति । - नन्वेवमीहादिज्ञानस्यावग्रहाद्यपेक्षत्वादव्यवधानेन प्रतिभासन-१५ लक्षणवैशद्याभावात्प्रत्यक्षता न स्यात् तदसारम् ; अपरापरेन्द्रि यव्यापारादेवावग्रहादीनामुत्पत्तेस्तत्र तदपेक्षत्वासिद्धेः। एकमेव चेदं विज्ञानमवग्रहाद्यतिशयवदपरापरचक्षुरादिव्यापारादुत्पन्न सत्स्वतन्त्रतया स्वविषये प्रवर्तते इति प्रमाणान्तरीव्यवधानमत्रीपि प्रसिद्धमेव । अनुमानादिप्रतीतिस्तु लिङ्गादिप्रतीत्यैव जनिता सती २० खविषये प्रवर्त्तते इत्यव्यवधानेन प्रतिभासनाभावान्न प्रत्यक्षेति । ततो निरवद्यमेवंविधं वैशा प्रत्यक्षलक्षणम्, साकल्येनाखिला- . ध्यक्षव्यक्तिषु सम्भवेनाव्याप्त्यसम्भवदोषाभावात् । अतिव्याप्तिस्तु दूरोत्सारितैव अध्यक्षत्वानभिमते कंचिदप्येतल्लक्षणस्यासम्भवात् । । १ ( लब्ध्युपयोगी भावेन्द्रियमिति सूत्रकारवचनम् । लब्धिर्हि इन्द्रियस्थानप्राप्तात्मप्रदेशानां तदावरणकर्मक्षयोपशमरूपा)। २ शानस्य । ३ जैनमतसिद्धिः । ४ अक्षस्य स्पष्टताहेतुनिराकरणपरेण ग्रन्थेन। ५ समर्थितम् । ६ उदाहरणे । ७ ज्ञाने। ८ अनुमानं प्रमाणान्तरेण लिङ्गशानेन जायते इति तद्वयुदासायैतत्पदम् । ९ मतिज्ञानम् । १० अवग्रहादिरूपस्य । ११ ईहादिमतिज्ञाने। १२ न प्रत्यक्षप्रतीत्या। १३ लिङ्गादिप्रतीत्या व्यवधानात् । १४ अव्यवधानेन प्रतिभासनलक्षणम् । १५ अनुमानादौ। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy