________________
सू० २।३]
विशदत्वविचारः
२१७
वात्राग्निः पाणों वा' इति सन्निहितवत् । न खलु सन्निहितं पावकं पश्यतस्तत्र सन्देहोस्ति । सन्देहे वा शब्दाल्लिङ्गाद्वा प्रति(ती)यतोज्यसौस्यात् । तथा चेदैमसङ्गतम्-"शब्दाल्लिङ्गाद्वा विशेषप्रतिपत्तौ न तत्र सन्देहः” [ ] इति । तन्नेदं प्रत्यक्षम् । किं तर्हि ? लिङ्गदर्शनप्रभवत्वादनुमानम् । 'दृष्टान्तमन्तरेणाप्यनुमानं भवति'५ इत्येतञ्चाग्रे वक्ष्यते।
व्याप्तिज्ञानं चास्पष्टत्वेनाप्रत्यक्षं व्यवहारिणां सुप्रसिद्धम् । व्यवहारानुकूल्येन च प्रमाणचिन्ता प्रतन्यते "प्रामाण्यं व्यवहारेण" [प्रमाणवा० ३५] इत्यादिवचनात् । न च तेषां सर्वे क्षणिका भावाः कृतका वाऽग्यायो धूमादयो वा स्पष्टज्ञानविषया इत्य-१० भ्युपगमोऽस्ति, अनुमानानर्थक्यप्रसङ्गात् । सर्व हि व्याप्यं व्यापकं च स्पष्टतया युगपनिश्चिन्वतो न किञ्चिदनुमानसाध्यम् , अन्यथा योगिनोप्यनुमानप्रसङ्गः । निश्चिते समारोपस्याप्यसम्भवो विरोधात् । कालान्तरभाविसमारोपनिषेधकत्वेनानुमानस्य प्रामाण्ये क्वचिदुपलब्धदेवदत्तस्य पुनः कालान्तरेऽनुपलम्भसमा-१५ रोपे सति यंदनन्तरं तत्स्मरणादिकं तदपि प्रमाणं भवेत् । तन्न व्याप्तिशानमप्यस्पष्टत्वात् प्रत्यक्षं युक्तम् । · ननु चास्पष्टत्वं ज्ञानधर्मः, अर्थधर्मों वा? यदि शानधर्मः; कथमर्थस्यास्पष्टत्वम् ? अन्यस्यास्पष्टत्वादन्यस्यास्पष्टत्वेऽतिप्रसनात् । अर्थधर्मत्वे कथमतो व्याप्तिज्ञानस्याप्रत्यक्षताप्रसिद्धिः १२० व्यधिकरणाद्धेतोः साध्यसिद्धौ 'काकस्य काया॑द्धवलः प्रासादः' इत्यादेरपि गमकत्वप्रसङ्गः, इत्यप्यसमीक्षिताभिधानम्। स्पष्टत्वेपि समानत्वात् । तदपि हि यदि ज्ञानधर्मस्तर्हि कथमर्थे स्पष्टता अतिप्रंसगात् ? विषये विषयिधर्मस्योपचाराददोषेऽत एव सोन्यत्रापि मो भूत् । संवेदनस्यैव ह्यस्पष्टता धर्मः स्पष्ट-२५ - १ जानतः। २ सन्देहे सति । ३ जैनं प्रति यदुक्तम् । ४ परीक्षा। ५ पुंसः। ६ समारोपव्यवच्छेदार्थमनुमानमिति चेन्नेत्याह । ७ अथे। ८ निश्चयश्चेत्समारोपः कथमिति । ९ सर्व क्षणिकं सत्त्वात्कृतकत्वादेति । १० नाहमद्राक्षमिति । ११ यसः। १२ यस्योपलम्भस्य । १३ तस्य पूर्वोपलब्धस्य देवदत्तस्य । १४ आदिपदेन प्रत्यभिज्ञानम् । १५ साधनं विचारयति । १६ दूरपादपास्पष्टत्वे पुरोवतिपदार्थस्यास्पष्टत्वं स्यात् । १७ भिन्नाधिकरणात् । १८ अस्पष्टत्वं हेतुरथे, अप्रत्यक्षत्वं साध्यं शाने इति । १९ सन्निहिते पादपादौ स्पष्टत्वमनुमेयेपि स्यात् । २० अतिप्रसंगलक्षणो दोषः। २१ शानास्पष्टत्वस्यार्थधर्मत्वे । २२ शानस्यैवास्पष्टलक्षणो धर्मोऽथे उपचर्यतेऽतश्चातिप्रसङ्गाभावात्कथं व्यधिकरणासिद्धो हेतुः ।
प्र. क. मा० १९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org