________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २११
ननु चाभावस्यार्थान्तरत्वानभ्युपगमे कथं तन्निमित्तको व्यवं. हारः ? तथाहि-किं घटावष्टब्धं भूतलं घटाभावो व्यपदिश्यते, तद्रहितं वा ? प्रथमपक्षे प्रत्यक्षविरोधः। द्वितीयपक्षे तु नाममात्रं भिद्यते-घटेरहितत्वम् , घटाभावविशिष्टत्वमिति; तदप्यसाम्प्रतम् । यतः किं घटाकारं भूतलं येन 'घटो न भवति' इत्युच्यमाने ५ प्रत्यक्षविरोधः स्यात्, यद्भूतलं तद्धटाकाररहितत्वाद्धटो न भवत्येव । ननु यद्यपि भूतलान्नार्थान्तरं घटाभावः, तर्हि घटसम्बद्धपि भूतले 'घटो नास्ति' इति प्रत्ययः स्यात्, न चैवम्, ततो यथा भूतलादर्थान्तरं घटस्तथा तद्भावोपीति; तदप्यसारम् ; घटासम्भविभूतलगतासाधारंणधर्मोपलक्षितं हि भूतलं घटाभावो १० व्यपदिश्यते । घटावष्टब्धं तु घटभूतलगतसंयोगलक्षणसाधारणधर्मविशिष्टत्वेन तथोत्पन्न मिति न 'अघटं भूतलम्' इति व्यपदेशं लभते । तन्नेतरेतराभावो विचारक्षमः।
नापि प्रागभावः तस्याप्यर्थादर्थान्तरस्य प्रमाणतोऽप्रतिपत्तेः। ननु 'वोत्पत्तेः प्राग्नासीद् घटः' इति प्रत्ययोऽसद्विषयः, सत्प्रत्य-१५ यविलक्षणत्वात् , यस्तु सद्विषयः स न सत्प्रत्ययविलक्षणो यथा 'सद्रव्यम्' इत्यादिप्रत्ययः, सत्प्रत्ययविलक्षणश्चायं तस्मादसद्विषयः' इत्यनुमानाततोऽर्थान्तरस्य प्रागभावस्य प्रतीतिरित्यपि मिथ्या; 'प्रागभावादौ नास्ति प्रध्वंसादिः' इति प्रत्ययेनानेकाः न्तात् । तस्याप्यसद्विषयत्वेऽभावानवस्था । अथ 'भावे भूभा-२० गादो नास्ति घटादिः' इति प्रत्ययो मुख्याभावविषयः, 'प्रागभा. वादो नास्ति प्रध्वंसादिः' इति प्रत्ययस्तूपचरिताभावविषयः, ततो नानवस्थेति; तदप्ययुक्तम् ; परमार्थतः प्रागभावादीनां साङ्कर्यप्रसङ्गात् । न खलूपचरितेनाभावेनान्योन्यमभावानां व्यतिरेका सिध्यत्, सर्वत्र मुख्याभावकल्पनानर्थक्यप्रसङ्गात् ।
२५
१ नास्तीति विकल्पो नास्तीत्यभिधानं च। २ अर्थादर्थान्तरमभावं समर्थयन्ति परे। ३ जैनैर्भवद्भिः । ४ नार्थभेदः। ५ भूतलस्य । ६ जैनमते । ७ परमते । ८ घटभूतलयोः किं तादात्म्यं प्रतिषिभ्यते आधाराधेयभावो वा? तत्राय पक्षं विवेचयति । ९ भूतलगतं विविक्तत्वं भिन्न घटगतं विविक्तत्वं भिन्नम् । १० उभयगतत्वात् । ११ घटावष्टब्धत्वेन । १२ घटस्य प्रागभावो मृत्पिण्डलक्षणोधस्तस्मात् । १३ प्रागभावः। १४ अर्थात् । १५ अयं सत्प्रत्ययविलक्षणश्च भवति, न त्वसद्विषयः । १६ अभावे अभावोऽस्ति यतः। १७ प्रागभावादी नास्ति प्रध्वंसादिरिति व्यवहारः प्रयोजनमभावानामसङ्करो निमित्तमित्युपचारप्रवृत्तिः-निमित्तप्रयोजनवशादुपचारप्रवृत्तेः। १८ भेदः। १९ अन्यथा ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org