________________
२१२
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
यदप्युक्तम्-'न भावस्वभावः प्रागभावादिः सर्वदा भावविशेषणत्वात्' इति; तदप्युक्तिमात्रम्; हेतोः पक्षाव्यापकत्वात् , 'न प्रागभावः प्रध्वंसादौ' इत्यादेरभावविशेषणस्याप्यभावस्य प्रसिद्धः। गुणादिनानेकान्ताच; अस्य सर्वदा भावविशेषणत्वेपि भावख. ५भावात् । 'रूपं पश्यामि' इत्यादिव्यवहारे गुणस्य स्वतन्त्रस्यापि प्रतीतेः सर्वदा भावविशेषणत्वाभावे 'अभावस्तत्त्वम्' इत्यभा. वस्यापि स्वतन्त्रस्य प्रतीतेः शश्वद्भावविशेषणत्वं न स्यात् । सामर्थ्यात्तद्विशेष्यस्य द्रव्यादेः सम्प्रत्ययात्सदास्य भावविशेषणत्वे
गुणादेरपि सर्वदा भावविशेषणत्वमस्तु, तद्विशेष्यस्य द्रव्यस्य १० सामर्थ्यतो गम्यमानत्वात् ।
किञ्च, प्रागभावः सादिः सान्तः परिकल्प्यते, सादिरनन्तः, अनादिरनन्तः अनादिः सान्तो वा? प्रथमपक्षे प्रागभावात्पूर्व घट स्योपलब्धिप्रसङ्गः, तद्विरोधिनः प्रागभावस्याभावात् । द्वितीयेपि
तदुत्पत्तेः पूर्वमुपलब्धिप्रसङ्गस्तत एव । उत्पन्ने तु प्रागभावे १५सर्वदानुपलब्धिः स्यात्तस्यानन्तत्वात् । तृतीये तु सदा प.
लब्धिः । चतुर्थे पुनः घटोत्पत्तौ प्रागभावस्थाभावे घटोपलब्धि. वदशेषकार्योपलब्धिः स्यात् , सकलकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् ।
नेनु यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः, तत्रैकस्य प्राग२० भावस्य विनाशेपि शेषोत्पत्स्यमानकार्यप्रागभावानामविनाशान
घटोत्पत्तौ सकलकार्योपलब्धिरिति; तर्झनन्ताः प्रागभावास्ते किं स्वतन्त्राः, भावतन्त्रा वा? स्वतन्त्राश्चेत्कथं न भावस्वभावाः कालादिवत् ? भावतन्त्राश्चेत्किमुत्पन्नभावतन्त्राः, उत्पत्स्य
मानभावतन्त्रा वा? न तावदादिविकल्पः; समुत्पन्नभावकाले २५ तत्प्रागभावविनाशात् । द्वितीयविकल्पोपि न श्रेयान् । प्रागभावकाले खयमसतामुत्पत्स्यमानभावानांतदाश्रयत्वायोगात् , अन्यथा
१ दण्डेन रूपेण च व्यभिचारः स्यात्तत्परिहारार्थ सर्वदेति विशेषणं दण्डस्य कदाचिद्विशेष्यरूपतयापि भावात्। कथम् ? दण्डं पश्यामीति । २ यतोऽभावोप्यभावस्य विशेषणं भवेत् भावोऽभावस्यापि । ३ प्रागभावो विशेषणमत्र । ४ अतोऽभावोऽभावस्य विशेषणमपि भवेद्भावोऽभावस्यापि। ५ घटस्य । ६ विशेष्यत्वेन । ७ अमावस्तत्वम् । कस्य ? घटस्येति । ८ यथा अभावः कस्येत्युच्यमाने पटस्येति, तथा गुणाः कस्य ? द्रन्यस्येति । ९ विनाशोपेतः। १० घटस्य । ११ घटस्य । १२ तद्विरोधिनः प्रागभावस्य सर्वदा भावादेव। १३ घटादिकार्यस्य । १४ घटोत्पत्तौ घटोपलब्धिक्दशेषकार्योंपलब्धि परिहरति परः। १५ तेषां प्रागभावानाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org