________________
प्रमेयकमलमार्त्तण्डे
२१०
[ २. प्रत्यक्षपरि०
स्यात् । घटसम्बन्धित्वप्रतिपत्तिंश्च घटग्रहणे सत्युपपद्यते। सोपि व्यावृत्त एव पटादिभ्यः प्रतिपत्तव्यः । ततो यावत्पूर्वं घटसम्बन्धित्वेन व्यावृत्तेरुपलम्भो न स्यान्न तावद्यावृत्तिविशिष्टतया घटः प्रत्येतुं शक्यः, यावच्च पटादिव्यावृत्तत्वेन न प्रतिपन्नो घटो ५ न तावत्स्व सम्बन्धित्वेन व्यावृत्तिं विशेषयति इति ।
अथ घटग्रहणपूर्वकत्वमितरेतराभावग्रहणस्यः अत्राप्यभावों विशेष्यो घटो विशेषणम् । तग्रहणं च पूर्वमन्वेषणीयम् "नागृहीतविशेषणा विशेष्ये बुद्धिः" [ ] इत्यभिधानात् । तत्रापि घटो गृह्यमाणः पटादिभ्यो व्यावृत्तो गृह्यते, अव्यावृत्तो वा ? तंत्र न १० तावत्पटादिभ्यो ऽव्यावृत्तस्य घटस्य घटरूपता घटते, अन्यथा पटादेरपि तथैव पटादिरूपताप्रसङ्गादभावकल्पनावैयर्थ्यम् । अथ तेभ्यो व्यावृत्तस्य घटस्य घटरूपताप्रतिपत्तिः प्रांर्ध्यते; तत्रापि किं कतिपयपटादिव्यक्तिभ्योऽसौ व्यावर्त्तते, सकलपटादिव्यक्तिभ्यो वा ? प्रथमपक्षे कुतश्चिदेवासौ व्यावर्त्तेत, न १५ सकलपटादिव्यक्तिभ्यः । द्वितीयपक्षेपि न निखिलपटादिभ्योऽस्य व्यावृत्तिर्घटते, तासामानन्त्येन ग्रहणासम्भवात् । इतरेतराश्रयत्वं च, तथाहि - ' यावत्पटादिभ्यो व्यावृत्तस्य घटस्य घटरूपता न स्यान्न तावद् घटात्पटादयो व्यावर्त्तन्ते, यावच्च घटाद्व्यावृत्तानां पटादीनां पटादिरूपता न स्यान्न तावत्पटादिभ्यो घटो व्याव२० र्त्तते इति ।
अस्तु वा यथाकथञ्चित्पटादिभ्यो घटस्य व्यावृत्तिः, घटान्त• रातु कथमसौ व्यावर्त्तते इति सम्प्रर्धीर्यम् - किं घटरूपतया, अन्यथा वा ? यदि घटरूपतया; तर्हि सकलघटव्यक्तिभ्यो व्याव र्त्तमानो घटो घटरूपतामादाय व्यावर्त्तत इत्यायातम् अघटत्वम- २५ न्यासां घटव्यक्तीनाम् । अथाघटरूपतयः तत्किमघटरूपता पटादिवद् घटेप्यस्ति ? तथा चेत्; तर्हि यो व्यावर्त्तते घटान्तरा घटत्वेन घटस्तस्याघटत्वं स्यात् । तच्च विप्रतिषिद्धम् - यद्यघटो घटः, कथं घटः ? तस्मान्नार्थादर्थान्तरमभावः ।
1
१ इतरेतराभावस्य । २ इतरेतराभावप्रतिपत्तेर्घटप्रतिपत्तिपूर्वकत्वं यतः । ३ इत -तराभावस्य । ४ घटसम्बन्धिनमितरेतराभावम् । ५ द्वितीयपक्षः । ६ प्रवत्तते ७ घटस्य पूर्वं ग्रहणेपि । ८ पक्षद्वये । ९ जैनमते स्वगतासाधारणधर्मेण घटः पटादिभ्यो व्यावृत्तो भवति, न तु इतरेतराभावादिति । १० पटादिभ्योऽव्यावृत्तस्य घटस्य घटरूपता यदि । ११ समर्थ्यते परेण । १२ ग्रहणे वा सर्वज्ञत्वादिप्रसङ्गः । १३ इतरेतरा. भावः । १४ विचार्यम् । १५ अघटरूपतया । १६ तहिं । १७ विरुद्धम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org