________________
सू० २/२ ] अभावस्य प्रत्यक्षादावन्तर्भावः
२०९
किञ्च, अनेन घटे पटः प्रतिषिध्यते, पटत्वसामान्यं वा, उभयं वा ? प्रथमपक्षे किं पटविशिष्टे घंटे पटः प्रतिषिध्यते, पटविविक्ते वा ? न तावदाद्यः पक्षो युक्तः; प्रत्यक्षविरोधात् । नापि द्वितीयः; तथाहि - किमितरेतराभावादन्या घटस्य पटविविक्तता, स एव वा विविक्तताशब्दाभिधेयः ? भेदे तयैव घटे पटाभावव्यवहारसिद्धेः ५ किमितरेतराभावेन ? अथ स एव तच्छब्दाभिधेयः तर्हि यस्मादभावात्पटविविक्ते घटे पटाभावव्यवहारः सोन्योऽ ऽभावः, विविक्तताशब्दाभिधेयश्चान्ये इत्येकस्मिन्वस्तुनीतरेतराभावद्वयमायातम् ।
किञ्च, 'घटे पटो नास्ति' इति पटरूपताप्रतिषेधः, सा किं प्राप्ता प्रतिषिध्यते, अप्राप्ता वा ? प्राप्तायाः प्रतिषेधे पटेपि पटरू- १० पताप्रतिषेधः स्यात् प्राप्तेरविशेषांत् । अप्राप्तायास्तु प्रतिषेधानुपपत्तिः, प्राप्तिपूर्वकत्वात्तस्य । न ह्यनुपलब्धोदकस्य 'अनुदकः कमण्डलुः' इति प्रतिषेधो घटते । अथान्यत्र प्राप्तमेव पटरूपमन्यत्र प्रतिषिध्यते; तत्रापि समवायप्रतिषेधः, संयोगप्रतिषेधो वा ? न तावत्समवायप्रतिषेधः; रूपादेरेकेंत्र समवायेन सम्बद्ध- १५ स्यान्यंत्र वस्त्वन्तरेऽन्योन्याभावतोऽभावव्यवहारानुपलम्भात् । घटपटयोः कदाचित्संयोगस्यापि सम्भवात् । अथ पटेन संयोगरहिते घटे पटप्रतिषेधो न तत्संयोगवति । नन्वेवं पटसंयोग रहितत्वमेवाभावोस्तु, न त्वन्यस्मादेभावात्पटसंयोगरहिते घटे पटाभाव इति युक्तम् । तन्न घटे २० पटप्रतिषेधो युक्तः ।
संयोगप्रतिषेधोप्यनुपपन्नः
१४
93
नापि पटत्वप्रतिषेधः तस्याप्येकत्र सम्बद्धस्यान्यत्र सम्बन्धाभावादेव प्रतिषेधानुपपत्तेः । नॉप्युर्भेयप्रतिषेधः, प्रागुक्ताशेषदोषानुषङ्गात् ।
किञ्च, इतरेतराभावप्रतिपत्तिपूर्विका घटप्रतिपत्तिः, घटग्रहण- २५ पूर्वकत्वं वेतरेतराभावग्रहणस्य ? आद्यपक्षेऽन्योन्याश्रयत्वम्; तथाहि - 'इतरेतराभावो घटसंबन्धित्वेनोपलभ्यमानो घटस्य विशेषणं न पदार्थान्तरसम्बन्धित्वेन, अन्यथा सर्व सर्वस्य विशेषणं
१ उभयं, पटः पटत्वं चेत्यर्थः । तृतीयपक्षोयम् । २ असाधारणस्वरूपता । १३ इतरेतराभावविविक्ततयोः । ४ इतरेतराभावः । ५ पटस्वरूपस्य । ६ एवं परस्यानिष्टापादनं भवति । ७ उभयत्र । ८ पुरुषस्य । ९ आतानवितानी भूतरूपादेः । १० पटादौ । ११ घटादौ । १२ इतरेतराभावात् । १३ द्वितीयपक्षः | १४ घटे । १५ तृतीयपक्षः । १६ पटपटत्वयोः । १७ घटस्येतरेतराभावोयमिति ।
1
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org