________________
२०६
प्रमेयकमलमार्तण्डे
[२. प्रत्यक्षपरि०
त्वात् । न च यत्र प्रमाणपञ्चकाभावस्तत्रावश्यं प्रमेयाभावज्ञानमुत्पद्यते; परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् ।
किञ्च, प्रमाणपञ्चकाभावो ज्ञातः, अज्ञातो वा तज्ज्ञानहेतुः स्यात् ? ज्ञातश्चेत्कुतो ज्ञप्तिः ? तद्विषयप्रमाणपश्चकाभावाचेत् । ५अनवस्था । प्रमेयाभावाच्चेदन्योन्याश्रयः-सिद्ध हि प्रमेयाभावे प्रमाणपञ्चकाभावसिद्धिः, तत्सिद्धेश्च प्रमेयाभावसिद्धिरिति । अशातस्य च ज्ञापकत्वायोगः “नाज्ञातं ज्ञापकं नाम"[ ] इति प्रेक्षावद्भिरभ्युपगमात्, अन्यथातिप्रसंङ्गः । अक्षौदेस्तु कारकत्वादज्ञातस्यापि ज्ञानहेतुत्वाविरोधः । न चास्यापि कार: १० कत्वात्तै तुत्वाविरोधः; निखिलसामर्थ्यशून्यत्वेनास्य कारकत्वासम्भवादित्युक्तत्वात् । ततोऽयुक्तमुक्तम्
"प्रत्यक्षाद्यवतारश्च भावांशो गृह्यते यदा। व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते ॥"
[मी० श्लो० अभाव० श्लो० ९७] इति ।। १५ द्वितीयपक्षे तु यतदन्यज्ञानं तत्प्रत्यक्षमेव, पर्युदासवृत्त्या हि निषेध्याद् घटादेरन्यस्य भूतलादेर्शानमभावप्रमाणाख्यां प्रतिपद्यमानं तदन्या(न्य)भावलक्षणाभावपरिच्छेदकमिष्टमेव । तृतीयपंक्षे तु किमसौ सर्वथा ज्ञाननिर्मुक्तः, कथञ्चिद्वा? तत्राद्यविकल्पे 'माता मे वन्ध्या' इत्यादिवत्स्ववचनविरोधः। सर्वथा हि यद्यात्मा २० ज्ञाननिर्मुक्तः कथमभावपरिच्छेदकः ? परिच्छेदस्य ज्ञानधर्मत्वात्। परिच्छेदकत्वे वा कथमसौ सर्वथा ज्ञाननिर्मुक्तः स्यात् ? अथ कथञ्चित्; तथाहि-'अभावविषयं ज्ञानमस्यास्ति निषेध्यविषयं तु नास्ति' इति; तर्हि तज्ज्ञानमेवाभावप्रमाणं स्यान्नात्मा। तच्च भावा
१ अन्यथा । २ प्रमाणपञ्चकाभावेऽपि प्रमेयाभावज्ञानं न परचेतोवृत्तिविशेषेष्वस्ति अतीन्द्रियत्वात् । ३ पुरुषेण । ४ प्रमेयाभाव। ५ बसः। ६ प्रमाणपञ्चकामावलक्षणा. भावप्रमाणादित्यर्थः। ७ ग्रन्थानवस्था । ८. अभावस्य । ९ अन्धेनाशातस्य धूमस्या निशापकत्वप्रसङ्गात् । १० अक्षादेरशातस्य कथं ज्ञापकत्वमित्युक्ते आह । ११ आदि. पदेन अदृष्टम् । १२ ज्ञानं प्रति कारणत्वं कारकत्वम् । १३ प्रमेयाभावशान । १४. प्रमाणपञ्चकभावोऽभावशानहेतुर्न भवति यतः । १५ तदा भवति । १६ निषेध्यघटात् । १७ भूतलस्य । १८ घटाभावः भूतलसद्भाव इति । १९ (तस्माद् घटादन्यद्भूतलम् । तच्चासौ भावश्च (अर्थः) स तदन्यभावो लक्षणं यस्यामावस्य)। २० उभयोरपि सम्मक तोयं (भावान्तरस्वभावलक्षणः) विकल्पः। २१ आत्मा। २२ प्रमेयाभावस्य । २३ अभाव । २४ घटादन्यद्भूतलं तदेव स्वभावो यस्याभावस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org