________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भाव: २०५ तसंस्कारः साङ्ख्यस्तथाऽप्रतिपद्यमानः तत्प्रसिद्धसत्त्वरजस्तमोलक्षणविषयनिदर्शनोपदर्शनेन अनुपलब्धिविशेषतःप्रतिबोध्यते तदाप्यनुमानमेवेति काभावप्रमाणस्यावकाशः ? ततोऽयुक्तमुक्तम्-'न चाध्यक्षेणाभावोऽवसीयते तस्याभावविषयत्वविरोधात्, नाप्यनुमानेन हेतोरभावात्' इति ।
किञ्च, अभावप्रमाणेनाभावग्रहणे तस्यैव प्रतिपत्तिः स्यान्न प्रतियोगिनिवृत्तेः । अभावप्रतिपत्तेस्तन्निवृत्तिप्रतिपत्तिश्चेत् । सो किं प्रतियोगिवरूपसम्बद्धा, असम्बद्धा वा? न तावत्सम्बद्धा; भावाभावयोस्तादात्म्यादिसम्बन्धासंभवस्य वक्ष्यमाणत्वात् । अथासम्बद्धा; तर्हि तत्प्रतिपत्तावपि कथं प्रतियोगिनिवृत्ति-१० सिद्धिः अतिप्रसङ्गात्? तैनिवृत्तरप्यपरतनिवृत्तिप्रतिपत्त्यभ्युपंर्गमे चानवस्था।
यच्च 'प्रमाणपञ्चकाभावः, तर्दैन्यज्ञानम्, आत्मा वा ज्ञाननिर्मुतोऽभावप्रमाणम्' इति त्रिप्रकारतास्येत्युक्तम्। तदप्ययुक्तम्। यतः प्रमाणपञ्चकाभावो निरुपाख्यत्वोत्कथं प्रमेयाभावं परिच्छि-१५ न्द्यात् परिच्छित्तेनिधर्मत्वात् ? अथ प्रमाणपञ्चकाभावःप्रमेया. भावविषयं ज्ञानं जनयन्नुपैचाराभावप्रमाणमुच्यते; नै; अभावस्थावस्तुतया तज्ज्ञानजनकत्वायोगात् । वस्त्वेव हि कार्यमुत्पादयति नावस्तु, तस्य संकलसामर्थ्यविकलत्वात्खरविषाणवत् । सामर्थ्य वा तस्य भावरूपताप्रसक्तिः, तल्लक्षणत्वात्परमार्थसतो२० लक्षणान्तराभावात्, सत्तासम्बन्धादेस्तल्लक्षणस्य निषेत्स्यमान
१ अभावं प्रत्यक्षतः। २ दृष्टान्त । ३ अभावम् । ४ इह भूतले घटो नास्ति दृश्यत्वे सत्यनुपलब्धेः । यत्र यस्य दृश्यत्वे सत्यनुपलब्धिस्तत्र तस्याभावो यथा तमसि सत्त्वस्य । ५ विषये। ६ प्रत्यक्षप्रत्यभिज्ञानानुमानैरभावः प्रतीयते यतः । ७ सति । ८ घटाभावस्य । ९ प्रतिपतिः स्यात् । १० निवृत्तिः। ११ अनन्तरमेव प्रध्वंसा. भावनिराकरणे। १२ निवृत्याऽसम्बद्धस्य प्रतियोगिनो घटस्य यथाऽभावः स्यात्तथा पटस्यापि निवृत्याऽसम्बद्धस्याभावप्रसङ्गः-उभयत्रासम्बद्धत्वाविशेषात् । १३ सा चासो निवृत्तिश्च तन्निवृत्तिस्तस्याः सकाशात् । १४ परेण । १५ प्रतिपत्तिर्घटेन सम्बद्धासम्बद्धेत्यादिप्रकारेण। १६ निषेध्यादटादन्यस्य भूतलस्य परिशानम् । १७ परेण । १८.निःस्वभावत्वात् । १९ गगनाम्भोजवत् । २० निरुपाख्यः स्यात्प्रमेयाभावपरिच्छेदक्रश्च स्यादित्युक्ते सत्याह । २१ निमित्तेऽयमुपचारः प्रमाणभूतज्ञानजनकत्वेन प्रमाण प्रमाणपश्चकाभावो न साक्षात्प्रमाणमिति । २२ तन्न। २३ शशशृङ्गवत् । २४ सद्रूपत्वाद् मृत्पिण्डवत् । २५ देशकालस्वभावतया । २६ आदिशग्देन प्रमाणविषयत्वम् । २७ समवायनिराकरणप्रघट्टके ।
प्र. क. मा. १८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org