________________
२०४ . प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक - प्रतियोगिनोपि स्मरणं वस्त्वन्तरसंसृष्टस्य, असंसृष्टस्य वा! यदि संसृष्टस्य; तदाऽभावप्रमाणाप्रवृत्तिः । अथासंसृष्टस्य, ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे तथाभूतस्यास्य स्मरणं स्थानान्यथा । तथाभ्युपगमे च तदेवाभावप्रमाणवैयर्थ्य ५'वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता' इत्यादिग्रन्थविरो धश्च । वस्तुमात्रस्याध्यक्षेण ग्रहणाभ्युपंगमे प्रतियोगीतैरव्यव. हारीभावः।
यदि चानुभूतेपि भावे प्रतियोगिस्मरणमन्तरेणावप्रतिप• तिर्न स्यात् , तर्हि प्रतियोग्यप्यनुभूत एव स्मर्तव्यो नान्यथा अति१० प्रसङ्गात् । तदनुभवश्चान्यासंसृष्टतयाऽभ्युपगन्तव्यः, तस्याप्यन्यासंसृष्टताप्रतिपत्तिस्ततोऽन्यत्र प्रतियोगिस्मरणात् तत्राप्ययमेव न्याय इत्यनवस्था। अथ प्रतियोगिनोभूतलस्य स्मरणाद् घटस्यान्यासंसृष्टता प्रतीयते, तत्सरणाच्च भूतलस्य तदेतरेतराश्रयः, तथा
हि-न यावद्धटासंसृष्टभूभागप्रतियोगिस्मरणाद् घटस्य भूतलासं१५सृष्टताप्रतिपत्तिर्न तावत्तत्स्मरणोद्भूतलस्य घटासंसृष्टताप्रतिपत्तिः, यावच्च भूतलस्य घटासंसृष्टता न प्रतीयते न तावत्तत्सरणेन घटस्येति। ततोऽन्यप्रतियोगिस्मरणमन्तरेणैवाभावांशो भावांशवत्प्र. त्यक्षोऽभ्युपगन्तव्यः । भूतलासंसृष्टघटदर्शनाहितसंस्कारस्य च
पुनर्घटासंसृष्टभूभागदर्शनानन्तरं तथाविधघटस्मरणे सति 'अस्या२० श्रीभावः' इति प्रतिपत्तिः प्रत्यभिज्ञानमेव । यदा तु वदुरॊगमाहि
१ स्मृत्वा च प्रतियोगिनमित्येतद्विचारयति। २ भूतल । ३ भूतलसम्बद्ध प्रतियोगि, सद्भावग्राहकत्वेनैव प्रत्यक्षस्य प्रवृत्तेः । ४ पूर्वोक्तमेव । ५ आयातम् । ६ प्रत्यक्षेणैवाभावस्य प्रतीतत्वात् । ७ अनवस्थादिदूषणपरिहारं करोति । ८ भूतलमात्रस्थ । ९ अन. वस्थादिदोषभयात्परेण। १० घट । ११ भूतल । १२ भूतलस्य । १३ प्रत्यक्षप्रतिपन्ने। १४ भूतललक्षणे। १५ घटस्य । १६ परेण । १७ अन्येन पटेन । १८ परेण । १९ घटस्य । २० पटेन । २१ घटात् । २२ पटे। २३ ग्रन्थानवस्था स्यात् । २४ अनवस्थापरिहारार्थ परः प्राह । २५ भूभागेन । २६ अन्यासंसृष्टता प्रतीयते। २७ घटासंसृष्टभूभागप्रतियोगिस्मरणात् घटस्य भूतलासंसृष्टताप्रतिपत्तिस्तस्यां सत्त्या भूभागासंसृष्टघटप्रतियोगिस्मरणाद्भूतलस्य घटसंसृष्टताप्रतिपत्तिस्तस्यां सत्यां घटासंसृष्ट भूभागस्मरणाद् घटस्य भूतलासंसृष्टताप्रतिपत्तिरित्यान्वयमुखेनेतरेतराश्रयः । २८ भूभामासंसृष्टघटप्रतियोगि। २९ दृष्टश्रुतानुभूतेथे स्मरणं चोपजायते। ३० घटासंसृष्टभूभाग। ३१ असंसृष्टताप्रतीतिः । ३२ इतरेतराश्रयो यतः । ३३ मर्यमाणघटस्य । ३४ प्रतियोगिस्सरणं विना जायमानं ज्ञानं प्रत्यक्षं प्रतियोगिस्मरणानन्तरमुपजायमानमभावप्रमाणं भविष्यतीत्युक्ते आह । ३५ नरस्य । ३६ स्मर्यमाणघटस्य । ३७ भूभागे। ३८ दर्शनस्मरणकारणकत्वाविशेषात् । ३९ आविर्भावतिरोभावात्सर्व सर्वत्र विद्यते इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org