________________
सू० २/२ ] अभावस्य प्रत्यक्षादावन्तर्भावः
२०७
न्तरस्वभावाभावग्राहकतयेन्द्रियैर्ज नितत्वात्प्रत्यक्षमेव । ततो निराकृतमेतत् -" न तावदिन्द्रियेणैषा" इत्यादि, " वस्त्वसङ्करसिविश्च तत्प्रामाण्यं समाश्रिता" इत्यादि चः तस्याः प्रत्यक्षादिप्रमाणत एव प्रसिद्धेः । कथं ततोऽभावपरिच्छित्तिरिति चेत्; कथं भावस्यें ? प्रतिभासाच्चेदितरत्र समानम् । न खलु प्रत्यक्ष- ५ णान्यसंसृष्टः प्रथमतोऽर्थोऽनुभूयते पञ्चदभावप्रमाणादन्यांसंसृष्ट इति क्रमप्रतीतिरस्ति, प्रथममेवान्या संसृष्टस्यार्थस्याध्यक्षे प्रतिभासनात् । न चान्यासंसृष्टार्थवेदनादन्यत्तदभाववेदनं नाम । एतेनैतदपि प्रत्युक्तम् " स्वरूपपररूपाभ्याम्" इत्यादिः सर्वैः सर्वदोभय रूप स्यैवान्तैर्बहिर्वाऽर्थस्य प्रतिसंवेदनात्, अन्यथा तद्- १० भावप्रसङ्गात् ।
"
१६
यदप्युक्तम्- “यस्यै यत्रं यदोद्भूतिः” इत्यादि; तदप्ययुक्तम् ; नानुभूतमनुद्भूतं नाम । नापि जिघृक्षाप्रभवं सर्वज्ञानम्; इन्द्रि यमनोमात्रभावे भावात्तदभावे चाभावात्तस्य ।
यच्चान्यदुक्तम् - "मेयो यद्वदभावो हि" इत्यादिः तत्र 'भावरू- १५ पेण प्रत्यक्षेण नाभावो वेद्यते' इति प्रतिज्ञों अन्यासंसृष्टभूतलग्राfor प्रत्यक्षेण निराक्रियते अनुष्णाग्निप्रतिज्ञावत् । 'भावात्मके यथा मेये' इत्याद्यप्ययुक्तम्; अभावादपि भावप्रतीतेः, यथा गगनतले पत्रादीनामधः पाताभावाद्वायोरिति । भावाच्चाश्यादेः शीताभावस्य प्रतीतिः सकलजनप्रसिद्धा । 'यो यथाविधः स २० तथाविधेनैव गृह्यते' इत्यभ्युपगमे चाभावस्य मुद्गरौदिहेतुत्वा
१ अभावस्य प्रत्यक्षतो ग्रहणं सिद्धं यतः । २ नास्तीत्युत्पाद्यते मतिः । भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि । ३ अभावग्राहकतायाः । ४ प्रत्यक्षादिप्रमाणात्तव मते परिच्छित्तिः । ५ घटेन । ६ भूतललक्षण: । ७ अन्यसंसृष्टज्ञानानन्तरम् । ८ घटेन । ९. एकदेवोभयरूपार्थविषयतयानुभूयमानं ज्ञानं कथमितरांशेऽनुद्भूतमिति भावः । १० भूतललक्षणस्य । ११ भूतललक्षण । १२ नित्यं सदसदात्मके । वस्तुनि शायते किञ्चिद्रूपं कैश्चित्कदाचनेत्यन्तम् । १३ प्रमाणैः । १४ सदसदात्मकस्य १५ ज्ञानस्य । १६ घटादेः । १७ उभयरूपार्थवेदनं न चेत् । १८ उभयरूपत्वादर्थस्य । १९ सदंशस्यासदंशस्य वा । २० वस्तुनि । २१ जिघृक्षा चोपजायते । वेद्यतेनुभवस्तस्य तेन च व्यपदिश्यते इत्यन्तम् । २२ प्रत्यक्षप्रतिपन्नम् । २३ अभावरूपम् | २४ मानम (अभावरूपं ) प्येवमिष्यताम् । भावात्मके यथा मेये नाऽभावस्थ प्रमाणता । तथैवाभावमेयेपि न भावस्थ प्रमागतेति च । २५ अभावोऽभावपरिच्छेद्यः तथाविषयत्वादिति वा प्रतिज्ञा । २६ गगनतले वायुरस्ति पत्रादीनामधः पाताभावान्यथान्यथानुपपत्तेः। २७ प्रतीति: । २८ भावरूप ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org