________________
१९२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० युक्ता। प्रयोगः-यो यथाविधो विषयः स तथाविधेनैव प्रमाणेन परिच्छि(च्छे)द्यते, यथा रूपादिभावो भावरूपेण चक्षुरादिना, विवादास्पदीभूतश्चाभावस्तस्मादभावः (दभावेन) परिच्छेद्यत इति। उक्तं च
"न तु (ननु) भावादभिन्नत्वात्सप्रयोगोस्ति तेन च । न हत्यन्तमभेदोस्ति रूपादिवदिहापि नः॥१॥ धर्मयोर्भेद इष्टो हि धर्म्यभेदेपि नः स्थितेः। उद्भवाभिभवात्मत्वाद्रहणं वितिष्ठते ॥२॥"
[मी० श्लो० अभाव० श्लो० १९-२०] "मेयो यद्वदभावो हि मानमप्येवमिप्यताम् । भावात्मके यथा मेये नाभावस्य प्रमाणता॥ तथैवाभावमेयेपि न भावस्य प्रमाणता।"
[मी० श्लो० अभाव० ४५-४६] इति । ततःशाब्दादीनां प्रमाणान्तरत्वप्रसिद्धः कथं प्रत्यक्षानुमानभेदा१५त्प्रमाणद्वैविध्यं परेषां व्यवतिष्ठेत ?
नन्वेवं प्रत्यक्षतरभेदात्कथं भैवतोपि प्रमाणद्वैविध्यव्यवस्थातेषां प्रमाणान्तरत्वप्रसिद्धरविशेषादिति चेत्? तेषां 'परोक्षेऽन्तर्भावात्' इति ब्रूमः । तथाहि-यदेकलक्षणलक्षितं तद्व्यक्तिभेदेप्येकमेव यथा वैशबैकलक्षणलक्षितं चक्षुरादिप्रत्यक्षम्, अवैशबै२० कलक्षणलक्षितं च शाब्दादीति । चक्षुरादिसामग्रीमेदेपि हि
तज्ज्ञानानां वैशबैकलक्षणलक्षितत्वेनैवाभेदः प्रसिद्धः प्रत्यक्षरूपतानतिक्रमात् , तद्वत् शब्दादिसामग्रीमेदेप्यवैशबैकलक्षितत्वेनैवाभेदः शाब्दादीनाम् परोक्षरूपत्वाविशेषात् । ननु परोक्षस्य स्मृत्यादिभेदेन परिगणितत्वात् उपमानादीनां प्रमाणान्तरत्वमेवे
१ अभावो अभावप्रमाणपरिच्छेद्यः-तथाविधविषयात् । २ भावेन परिच्छेद्योऽभावेन वेति । ३ तथाविधविषयत्वात् । ४ पदार्थात्। ५ अमावस्य। ६ इन्द्रियाणाम् । ७ असदंशेन । ८ रश्मि । ९ यथा रूपादेरत्यन्तमभेदोस्ति, एवं भावाभावधर्मयोरत्यन्तमभेदो नास्ति । १० धर्मस्यात्यन्तमभेदो नास्तीति कुतः । ११ स्वकीयप्रमाणा. भ्यामुभयधर्मयोरपि ग्रहणं कमान्न स्यादित्युक्ते आह । १२ सदसदंशयोः । १३ प्रत्यक्षादिप्रमाणैः। १४ अग्रहणं च । १५ अभावरूपम् । १६ सौगवेन । १७ दृष्टान्तमाह। १८ बौद्धानाम् । १९ सौगतमतप्रसिद्धप्रमाणदैविध्याव्यवस्थितिप्रकारेण। २० जैनस्य। २१ वयं जैनाः । २२ शब्दादि धर्मि व्यक्तिमेदेष्येकं भवत्येकलक्षणलक्षितत्वात् । २३ स्पर्शनादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org