SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सू० २।२] अर्थापत्तेः अनुमानेऽन्तर्भावः १९३ त्यप्यसमीक्षिताभिधानम् तेषामत्रैवान्तर्भावात् । उपमानस्य हि प्रत्यभिज्ञानेन्तर्भावो वक्ष्यते । - अर्थापत्तेस्त्वनुमानेऽन्तर्भावः; तथा हि-अर्थापत्त्युत्थापकोऽथोन्यथानुपपद्यमानत्वेनानवगतः, अवगतो वाऽदृष्टार्थपरिकल्पनानिमित्तं स्यात् ? न तावदनवगतः; अतिप्रसङ्गात् । येने हि विनो-५ पपद्यमानत्वेनावगतस्तमपि परिकल्पयेत् , येन विना नोपपद्यते तमपि वा न कल्पयेत् , अन्यथानुपपद्यमानत्वेनानवगतस्यार्थापत्युत्थापकार्थस्यान्यथानुपपद्यमानत्वे सत्यप्यदृष्टार्थपरिकल्पकत्वासम्भवात् । सम्भवे वा लिङ्गस्याप्यनिश्चिताविनाभावस्य परोक्षा नुमापकत्वं स्यात् । ततश्चेदं नार्थापत्त्युत्थापकार्थाद् भिद्येत ।१० नाप्यवगतः; अर्थापत्त्यनुमानयोर्भेदाभावप्रसङ्गादेव, अविनाभावित्वेन प्रतिपन्नादेकस्मात्सम्बन्धिनो द्वितीयप्रतीतेरुभयत्राविशेषात् । किञ्च, अस्योन्यथानुपपद्यमानत्वावगमोऽर्थापत्तेरेव,प्रमाणान्तराद्वा? प्रथमपक्षेऽन्योन्याश्रयः; तथाहि-अन्यथानुपपद्यमानत्वेन प्रतिपन्नार्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तेश्चास्यान्यथानुपपद्यमान-१५ त्वप्रतिपत्तिरिति । ततो निराकृतमेतत् "अविनाभाविता चात्र तदैव परिगृह्यते । ___ नौगवगतेत्येवं सत्यप्येषा न कारणम् ॥ १॥" [मी० श्लो० अर्था० श्लो० ३०] . "तेर्ने सम्बन्धवेलायां संम्बन्ध्यन्यतरो ध्रुवम् । २० अर्थापत्त्यैव गन्तव्यः पश्चादस्त्वनुमानता ॥" [मी० श्लो० अर्था० श्लो० ३३] इति । ...१ अधःपूरादिः। २ उपरि वृष्टिं विना । ३ उपरि वृष्टयादिलक्षण । ४ कारणम् । ५ रासभागमनादिना। ६ धूमादेः । ७ नालिकेरद्वीपायातं नरं प्रति । ८ लिङ्गम् । ९ अन्यथा। १० धूमादिहेतोरधःपूरादिकल्पकाद्वा । ११ अभ्यादिसाध्यस्योपरिवृष्टयादिकल्प्यस्य वा। १२ अधःपूरादेः। १३ उपरि वृष्टयादिकं विना। १४ अध:पूरात् । १५ अर्थापत्त्युत्थापकार्थावगमः । १६ अर्थस्य । १७ अन्योन्याश्रयो यतः। १८ वक्ष्यमाणम् । १९ अर्थापत्त्यनुमानयोरमेदः-निश्चिताविनाभाविलिङ्गप्रभवत्वाविशेषादित्युक्ते आह परः । २० अर्थापत्तिकल्पितेऽधःपूरादौ । २१ अर्थापत्त्युत्पत्ते:पूर्वमबिनाभाविता नावसिता। २२ सती। २३ अर्थापत्ति प्रति । २४ अतोऽनुमानादर्थापत्तेदः। २५ सम्बन्धे गृहीतेपत्तेरनुमानरूपता भविष्यतीत्युक्ते आह । २६ येन कारणेनाविनाभाविताs पत्तिसमये एव गृह्यते तेन कारणेन सम्बन्धे । २७ ग्रहणस्य । २८ अनुमानस्य । २९ सम्बन्धिनोवृष्टिपूरयोर्मध्ये अन्यतरो वृष्टिः । ३० पूर्वमर्थापत्तिरेवेत्यर्थः । ३१ उत्तरकालं चेत् तदा। . प्र. क. मा० १७ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy