________________
.
सू० २।२] अभावविचारः
१९१ अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह। व्योनि संस्पर्शता ते च न चेदस्य प्रमाणता ॥"
[मी० श्लो० अभाव० श्लो०५-६] इति । न च निरंशत्वाद्वस्तुनस्तत्वरूपग्राहिणाध्यक्षणास्य सर्वात्मना ग्रहणादगृहीतस्य चापरस्यादंशस्य तत्राभावात् कथं तद्व्यवस्थाप-५ नाय प्रवर्त्तमानमभावाख्यं प्रमाणं प्रामाण्यमश्नुते ? इत्यभिधातव्यम् ; यतः सदसदात्मके वस्तुनि प्रत्यक्षादिना तत्र सदंशग्रहणेप्यगृहीतस्यासदंशस्य व्यवस्थापनाय प्रमाणाभावस्य प्रवर्त्तमानस्य न प्रामाण्यव्याहतिः। उक्तं च
"खरूपपररूपाभ्यां नित्यं सदसदात्मके। वस्तुनि ज्ञायते किश्चिद्रूपं कैश्चित्कदाचन ॥१॥ यस्य यंत्र यंदोद्भुतिर्जिघृक्षा चोपजायते । वेद्यतेनुभवस्तस्य तेन च व्यपदिश्यते ॥ २॥ तस्योपकारकत्वेन वर्त्ततेऽशस्तैदेतैरः। उभयोरपि संवित्या उभयानुगमोस्ति हुँ ॥३॥"
[मी० श्लो० अभाव० श्लो० १२-१४] प्रत्यक्षाद्यवतारच भावांशो गृह्यते यदा। व्यापारस्तदनुत्पत्तेरभावांशे जिक्षिते ॥ ४॥"
[मी० श्लो० अभाव० श्लो० १७] न च धर्मिणोऽभिन्नत्वाद्भावांशवदभावांशस्याप्यध्यक्षेणैव ग्रहः २० सदसदंशयोधर्म(य)मेदेप्यन्योन्यं भेदान्नायनरश्मिरूपादिवदभावस्यानुद्भूतत्वात् । न चाभावस्य भावरूपेण प्रमाणेन परिच्छित्ति
१ गन्धादयः । २ सद्रूपस्य वस्तुनः । ३ समर्थनाय । ४ व्यानोति । ५ सौगतेन । ६ सर्वदा। ७ प्रमाणैः। ८ किश्चिद्रूपमित्येतत्पदं यस्येत्यादिना विवृणोति । सदंशस्यासदंशस्य वा। ९ उभयात्मके वस्तुनि । १० सदंशग्रहणकाले। ११ अभिव्यक्तिः । १२ पुरुषाणाम् । १३ नरैः। १४ परिच्छित्तिः। १५ सदंशस्थासदंशस्य वा। १६. अभिव्यक्तेन सदंशेन असदंशेन वा । १७ पुंभिर्वस्तु । १८ य एवांशो गृह्यते स एवांशोस्ति न तद्वितीय इत्युक्ते आह। १९ गृह्यमाणसदंशस्य । २० सदंशग्रहणकाले । . २१ असदंशः । २२ सदसदंशयोः । २३ संवेदनात् । २४ उभयात्मके वस्तुनि। २५ कैश्चिदित्येतत्पदं प्रत्यक्षाचवतार इत्यादिना आह । २६ तदा भवेत् । २७ स्यात् । २८ अभावस्य । २९ ग्रहीतुमिष्टे वस्तुनि । ३० तदनुत्पत्तरित्यतदपरार्द्धार्थ विघटयति । ३१ वस्तुनः । ३२ एकत्वात् । ३३ मेदेप्युभयधर्मयोः प्रत्यक्षेण ग्रहणं कुतो न स्यादित्युक्त आह । अन्योन्यमिति । ३४ सदंशस्योद्भूतत्वात् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org