SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ १९० प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भावस्याभावादभावप्रमाणवैयर्थ्यम्; कारणादिविभागंतो व्यवहारस्य लोकप्रतीतस्याभावप्रसङ्गात् । उक्तंच "न च स्याद्व्यवहोरोयं कारणादिविभागतः। प्रागभावादिभेदेन नाभावो यदि भिद्यते ॥ १॥" [मी० श्लो० अभाव० श्लो०७] प्रागभावादिभेदान्यथानुपपत्तेश्चास्यार्थापत्त्या वस्तुरूपतावसीयते । उक्तंच "न चावस्तुन एते स्युभदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादिनः(ना)॥१॥" [मी० श्लो० अभाव० श्लो०८] अनुमानावसेया चास्य वस्तुता। यदाह"यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्वादिवद्वस्तु प्रमेयत्वाच्च गृह्यताम् ॥ १॥" [मी० श्लो० अभाव० श्लो०९] १५ चतुःप्रकारश्चाभावो व्यवस्थितः-प्राक्प्रध्वंसेतरेतराऽत्यन्ताभावभेदात् । उक्तं च "वस्त्वऽसङ्करसिद्धिश्च तत्प्रामाण्यं समाश्रिता। क्षीरे ध्यादि यन्नास्ति प्रागभावः स उच्यते ॥१॥ नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोन्योन्याभाव उच्यते ॥२॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः। शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥३॥" [मी० श्लो० अभाव० श्लो० २-४] यदि चैतेषां व्यवस्थापकमभावाख्यं प्रमाणं न स्यात्तदा प्रति२५ नियतवस्तुव्यवस्थाविलोपः स्यात् । तदुक्तम् "क्षीरे दधि भवेदेवं दनि क्षीरं घटे पटः। शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तितात्मनि ॥ १ अन्यथा। २ क्षीर। ३ कार्य दधि । ४ प्रागभावादिकृतः कारणादिविभागः। ५ लोकप्रतीतः। ६ [अ]भावप्रमाणमन्तरेण । ७ प्रागभावादयः। ८ कारणेन । ९ स्वरूपादीनां च । १० अथवाऽर्थापत्त्यपेक्षया। ११ अभावो वस्तुरूपों भवति अनुवृत्तिव्यावृत्तिबुद्धिग्राह्यत्वाद्वादिवत्प्रमेयत्वाच्च तद्वत् । १२ शशस्य । १३ कालत्रये। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy